SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् नागेन्द्रगच्छमण्डनश्रीउदयप्रभसूरिविनिर्मिता वस्तुपालस्तुतिः। पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि, स्वच्छा नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः। वाग्देवीमुखसामसूक्तविशदोद्गारादपि प्राञ्जलाः, केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्तयः१ ॥१॥ चेतः केतकगर्भपत्रविशदं वाचः सुधाबन्धवः, कीर्तिः कार्तिकमासमांसलशशिज्योत्स्नावदातद्युतिः । माश्चर्य क्षितिरक्षणक्षणविधौ श्रीवस्तुपालस्य यत् , कृष्णत्वं चरितैरपास्तदुरितैलॊकेषु भेजे भुजः॥२॥ श्रीवस्तुपालमन्त्रीन्दोबूंमः किं गुणगौरवम् ? । यस्य निष्प्रतिमानस्य, तुलनायाः कथा वृथा ॥ ३ ॥ सूरो रणेषु चरणप्रणतेषु सोमो, वक्रोऽतिवक्रचरितेषु बुधोऽर्थबोधे । नीतौ गुरुः कृतिजने कविरक्रियासु, मन्दोऽपि च ग्रहमयो नहि वस्तुपालः ॥ ४ ॥ मसूणघुसृणपकैर्भालपट्टेषु लब्धा, विधिविहितकुवर्णश्रेणिकी याचकानाम् । विरचयति सुवर्णश्रेणिभूषाममीषां, ध्रुवमिति नववेधा वस्तुपालः सुमेधाः युद्धपर्वणि कदाऽपि न दृष्टं, यस्य पृष्ठमसुहृन्निकुरम्बैः । सप्रतिज्ञमिव वीक्षितुमुत्कैस्तैश्चिरादनुचरत्वमभाजि ॥६॥ शङ्ख शार्ङ्गधरस्य शेखरमणि शूलायुधस्य द्विपं, वज्रास्त्रस्य रदं परश्वधभृतः स्वर्लोकलीलाजये। उत्कर्षार्थितया विलुम्पतु भटो निःसीमधामा यशो, नामाऽऽयस्य हहा ! जहार तु कुतो युग्यं जरब्रह्मणः ? ॥७॥ सेलिन्ति पयःसमुद्रति दिशामन्तेषु मध्येनभः, सारङ्गन्ति शशाङ्कति थुविपिने दानन्ति दन्तीन्द्रति । पुष्पस्तोमति षट्पदन्त्यनुलताखण्डं सुधाकुण्डति, श्वभ्रान्तर्भुजगन्ति यस्य यशसि प्रत्यार्थिदुष्कीर्तयः ॥ ८ ॥ भर्तुर्वेषमयं विधाय कितवः कोऽप्येति मामुन्मना स्तेनामुं विजये ! निवारय यतो मे नीलकण्ठः प्रियः । १ पद्यमिदं धर्माभ्युदयदशमसर्गप्रान्ते, प्रबन्धकोशगतवस्तुपालप्रबन्धे षट्षष्टितमं च “ एवं स्तुतः केनापि कविना" इत्युल्लेखेन निर्दिष्टं वर्तते ॥ २ पद्यमिदं प्रबन्धकोशे वस्तुपालप्रबन्धे अष्टापञ्चाशत्तमं “कश्चित्" इत्युल्लेखेनोलिखितं वर्तते ।। ३ पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां ९१ तमम ॥४ पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां ५२ तमम् ।। ५ °टो विश्वैकधामा सुकृतकीर्तिकल्लोलिन्याम् ॥ ६ पद्यमिदं सुकृतकीर्तिकल्लोलिन्यां ३७ तमम् ॥ ७ शुभुवने सुकृतकीर्तिकल्लोलिन्याम् ॥ ८ पद्यमिदं सुकृतकोर्तिकल्लोलिन्यां १३४ तमम् ॥ व०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy