________________
भरनारायणानन्दस्य षोडशः सर्मः। देवः परं जिनवरो हरिभद्रसूरिः, सत्यं गुरुः परिवृढः खलु सिद्धराजः । धीमाननेन नियतं नियमत्रयेण, कीर्ति व्यधात् त्रिपथगामिव यः पवित्राम् ॥ १४ ॥ पुस्फूर्ज गुर्जरधराधवसिद्धराजराजत्सभाजनसभाजनभाजनस्य । दुर्मन्त्रिमन्त्रितदवानलविहलायां, श्रीखण्डमण्डननिभा भुवि यस्य कीर्तिः ॥१५॥ कुर्वन् परायंगणिते सति यद्गुणानामेकैकबिन्दुरचनामुडकैतवेन । चन्द्रच्छलेन कति नो खटिनीवुभित्तौ, धाता व्यधादथ विधास्यति कीर्तिशेषाः ? ॥१६॥ नो चेद् यशांसि बलि-कर्ण-दधीचिमुख्या, दानोत्सवैरविरलानि भुवि व्यधास्यन् । भक्तैरदास्यत विलासमरालबाललक्ष्मीर्यदीयघनदानयशोनदीषु श्रीवाससद्मकरपद्मगदीपकल्पां, व्यापारिणः कति न बिभ्रति हेममुद्राम् ? । प्रज्वालयन्ति जगदप्यनयैव केऽपि, येन व्यमोचि तु समस्तमिदं तमस्तः ॥१८ ॥ कान्ता जगत्रितयविस्मयनीयनीतेः, सीतेति रामचरितस्य बभूव तस्य । यल्लोचनं स्थिरतरं दयिताननेन्दौ, दूरेण काञ्चनमृगश्रियमन्वगच्छत् ॥ १९ ॥ हर्षादसौ हसतु शीतकरोऽपि भासा, भृङ्गीरुतैरपि च हुङ्कुरुतां सरोजम् । दूरावलम्बितशिरोम्बरडम्बरेण, यस्या मुखं जगति न प्रकटं यदासीत् ॥२०॥ तत्सम्भवत्रिभुवनाभरणं बभार, शुभ्रं यशोभरमनश्वरमश्वराजः । मुक्त्वा कलङ्ककलितं ललितं हिमांशु, हर्षादलाभि सकलाभिरयं कलाभिः ॥२१॥ यं मातृभक्तिशुचिमेव यशश्छलेन, संसेव्य जातसुकृतो रजनीभुजङ्गः । आसीजगत्रितयविस्तृतवैभवश्च, साक्षात् कलङ्करहितश्च सदोदितश्च ॥ २२ ॥ हुत्वा सदध्वरचितेषु तमांसि तीर्थयात्रोत्सवेषु खलु सप्तसु पावकेषु । यः सप्तपूर्वपुरुषैकमुदे यशोऽम्भःपूर्तानि सप्त भुवनानि कृती प्रतेने ॥ २३ ॥ संस्तूयमानचरितः परितः प्रबुद्धैः, सत्यव्रते सुकृतसूनुरिवान्वहं यः । लज्जामसज्जयत चापगुरुद्विजेन्द्रद्रोणक्षयक्षणतदुक्तिविचारणेन तस्य प्रिया प्रणयपात्रममात्रशीललीलायितं बत ! बभार कुमारदेवी । आलीयत प्रतिपदं जिनपादपद्मे, चित्तेशवक्त्रकमले च यदीयदृष्टिः ॥ २५ ॥ यस्या मुखे जिनगुणग्रहणप्ररोहत्प्रीत्या शिरः प्रतिकलं परिकम्पयन्त्याः । हित्वाऽम्बुजं च रजनीरमणं च लोला, दोलाकुतूहलरसं समसेवत श्रीः ॥२६ ॥ सूनुस्तयोरजनि नीरजनिर्मलास्यः, श्रीलास्यभूः स्मरकलः किल लूणिगाख्यः । बाल्येऽपि यस्य चरितं विरराज वृद्धसंवादकं क्रमनिराकृतपल्लवस्य ॥ २७॥ यस्याऽऽननं द्विजवियुक्तमपि द्विजेन्द्रसान्द्रप्रभाभरमभान्नवशैशवस्य । अङ्गं च केशलवमुक्तमपि व्यराजद्, यस्य प्रवालरुचिराधरपाणिपादम् ॥ २८ ॥ सत्याभिधस्तदनुजो मनुजावतंसरत्नं बभूव विदितो भुवि मल्लदेवः । यस्याप्रतः प्रतिकलं गतिविभ्रमेण, विभ्राजते स्म न महानपि हस्तिमलः ॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org