SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ नरनारायणानन्दस्य षोडशः सर्गः । [ वादर्श ॥ ३० ॥ ॥ ३३ ॥ और्वाग्निनाऽपतत यः सततं पयोधौ, पातालसीनि फणिफुत्कृतिदावदाहः । चण्डेव चण्डकरधर्मघटेति मत्वा, यस्योज्ज्वलानि वचनानि सुधा सिषेवे तस्यानुजः पितृपदाम्बुजचञ्चरीकः, श्रीमातृभक्तिसरसीरसकेलिहंसः । साक्षाज्जिनाधिपतिधर्मनृपाङ्गरक्षो, जागर्ति नर्तितमना हृदि वस्तुपालः नागेन्द्रगच्छमुकुटाऽमरचन्द्रसूरिपादाब्जभृङ्गहरिभद्रमुनीन्द्रशिष्यात् । व्याख्यावचो विजय सेनगुरोः सुधाभमास्वाद्य धर्मपथि सत्पथिकोऽभवद् यः ॥ ३२ ॥ कुर्वन् मुहुर्विमल-रैवतकादितीर्थयात्रां स्वकीयपितृपुण्यकृते मुदा यः । सङ्घट्टिसङ्घपदरेणुभरेण चित्रं, सद्दर्शनं जगति निर्मलयाम्बभूव धर्मौचितीं रुचितकामगवीं निषेव्य, दुग्धप्रपास्त्रिजगतोऽपि वितत्य कीर्तीः । यो मातृदुग्धरसपान महोत्सवानामानृण्यमात्मनि कथञ्चन नैव मेने भास्वत्प्रभावमधुराय निरन्तरायधर्मोत्सवव्यतिकराय निरन्तराय । यो गुर्जरावनिशिरोमणिभीमभ्रूपमन्त्रीन्द्रतापरवशत्वमपि प्रपेदे यः कामवृत्तिरनुजेन निजेन तेजःपालेन पूर्णनृपकार्यपरम्परेण । सद्धर्मकर्मरस एव मनो मनोज्ञविद्वद्विनोदपयसि स्नपयाम्बभूव यः स्वीयमातृ-पितृ-बन्धु- कलत्र-पुत्र - मित्रादिपुण्यजनये जनयाञ्चकार । सद्दर्शनत्रजविकासकृते च धर्मस्थानावलीवलयिनीमवनीमशेषाम् कीर्त्या सौरभसारसान्द्र सुमनःसन्दोहसन्दोहक ॥ ३४ ॥ ॥ ३१ ॥ Jain Education International ।। ३५ ।। For Private & Personal Use Only ॥ ३६ ॥ त्कान्त्या पाति वसन्तमन्वहमसावित्यर्पितार्थक्रमम् । ख्यातिं प्राप वसन्तपाल इति यो नामाद्वितीयं मुदा, विद्वद्भिः परिकल्पितं हरिहर - श्री सोमशर्मादिभिः श्रीशत्रुञ्जयशैलशेखरमणेः श्रीनाभिसूनुप्रभोः, पीत्वा वक्त्रसुधांशुदीधितिसुधामाकण्ठमुत्कण्ठया । व्यातन्वन् कवितां नितान्तमुदितः सद्यस्तदुद्गारवत्, ॥ ३९ ॥ तस्यैवाऽऽदिजिनेश्वरस्य जनयामास स्तवं यो नवम् नरनारायणानन्दो, नाम कन्दो मुदामिदम् । तेने तेन महाकाव्यं, वाग्देवीधर्मसूनुना ॥ ४० ॥ उद्भास्वद्विश्वविद्यालयमयमनसः ! कोविदेन्द्राः ! वितन्द्राः !, मन्त्री बद्धाञ्जलिर्वो विनयनतशिरा याचते वस्तुपालः । अल्पप्रज्ञाप्रबोधादपि सपदि मया कल्पितेऽस्मिन् प्रबन्धे, भूयो भूयोऽपि यूयं जनयत नयनक्षेपतो दोषमोषम् ॥ ३७ ॥ ॥ ३८ ॥ ॥ इति श्रीगुर्जरेश्वर महामात्य श्रीवसन्तपालविरचिते नरनारायणानन्दनाम्नि महाकाव्ये प्रशस्तिप्रपञ्चो नाम षोडशः सर्गः ॥ ॥ ४१ ॥ www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy