SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ द्वादशं परिशिष्टम् गूर्जरेश्वरमहामात्यश्रीवस्तुपालकविविरचितस्य नरनारायणानन्द. महाकाव्यस्य प्रशस्त्यात्मकः षोडशः सर्गः । शोभाभिभूतपुरुहूतपुरं पुरन्ध्रीलावण्यलोभितजगन्नगरं गरीयः । धाम श्रियोऽणहिलपाटकनाम कामलीलामयं जयति गूर्जरभूविभूषा ॥१॥ वाग्देवतां यदि जना जननीमिवैनामानन्दिनः प्रतिदिनं हृदि नन्दयन्ति । यस्मिन्निमान् मदनतुल्यरुचस्तथापि, निर्मत्सरा त्यजति नो सुतवत्सला श्रीः ॥२॥ प्राग्वाटगोत्रतिलकः किल कश्चिदत्र, श्रीचण्डपः स्फुटमखण्डपदप्रतिष्ठः । विस्फूर्जितान्यधित गूर्जरराजराज्यराजीवजीवनरविः सचिवावतंसः ॥ ३ ॥ कृष्णीकृतारिवदना सुमनोमनांसि, रागास्पदं विदधती यदलक्ष्यरूपा ।। आनन्दमर्दितविचारमदैर्यदीयकीर्तिर्मुधा जितसुधा बुबुधे बुधेन्द्रैः ॥४॥ चण्डप्रसाद इति सादितविश्वदौस्थ्यस्तन्नन्दनः स्वकुलनन्दनकल्पशाखी । मुक्तामयप्रसवसञ्चयचारुचञ्चत्कीर्तिप्रभासुरभिताम्बरभूर्बभूव शास्त्रार्थवारिभरहारिहृदालवालसंरोपिता मतिलता वितता नितान्तम् ।। यस्य प्रकाशितरविग्रहतापवद्भिश्छायार्थिभिनुपकुलैः फलदा सिषेवे ॥६॥ पुण्यस्य पापपटलीजयिनो जयश्रीरासीत् तदीयदयिता नयभूर्जयश्रीः । यस्या मनो दयितभक्तिसुरस्रवन्तीस्नानोज्ज्वलां जनयति स्म जिनेन्द्रसेवाम् ॥७॥ नैवोष्ठसम्पुटविपाटनया कदाचिदेषा स्मितं जितसुधाविभवं व्यधत्त । श्वेतद्युतिः कलुषतां तदयं हृदन्तः, केनापरेण परिभूततनुस्तनोति ? ॥ ८ ॥ श्रीरङ्गभूर्भृशमभूदनयोर्नयाढ्यश्रीरङ्गभूर्जगति शूर इति प्रतीतः । अस्वमतां सुरगुरुः सह शिष्यवगैर्धत्ते स्म यन्मतिजितश्चिरचिन्तयेव ॥९॥ चूडामणीकृतजिनाङ्ग्रिनखप्रपञ्चः, कर्णस्फुरद्गुरुसुवर्णविभूषणश्रीः । सद्वर्त्मनि प्रचलदुर्मदमोहचौरः, दुःसञ्चरेऽपि विललास य एव शूरः ॥ १०॥ हृत्वाऽपि कान्तिलवमेव यदीयकीर्तेर्दिव्यं सृजन्निव जगत्यपवादभीतः ।। इन्दुः सुधावपुरपि प्रभुरौषधीनामप्येष सर्पनिभलक्ष्मधृतौ न शुद्धः ॥११॥ सोमाभिधस्तदनुजः सुजनाननाब्जसूर्योऽभवद् विबुधसिन्धुविशुद्धबुद्धिः । यन्मानसेऽद्भुतरसे विललास वार्धिक्षिप्तौर्वतापविधुरेव सरस्वतीयम् ॥१२ ।। क्रीडाकथासु सदसि घुसदां सदैव, मौलिं विकम्प्य किल सोऽपि गुरुः सुराणाम् ।। यहृद्धिवैभवभरस्य विचारितस्य, नीराजनान्यकृत चञ्चलचूलरत्नैः ॥ १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy