SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥ ६४॥ परिशिष्टम् ] पश्चदशः सर्गः । अर्थदानदलितार्थिदुःस्थितिं, त्वां विना विनयनम्र! सम्प्रति । मृज्यते जगति केनचित् सतां, वस्तुपाल! न कपालदुर्लिपिः गोमयरसानुलिप्ते, कीर्तिसुधाधवलिते च भुवनगृहे । श्रीवस्तुपाल ! भवतश्चकास्ति चित्रं चरित्रमिह पीयूषैः प्रणता हिमैः प्रणिहिता ताराभिराराधिता, गावीचिभिरर्चिता परिचिता दिग्दन्तिदन्तांशुभिः । कर्पूरैः परिशीलिता मलयजैरावर्जिता मण्डिता, डिण्डीरस्तबकैर्बकैरनुसृता मन्त्रीश ! कीर्तिस्तव प्रवर्तमानेऽत्र कवित्वसत्रे, सत्कृत्य सत्पात्रममात्यमेवम् । कृतार्थमात्मानमसावमस्त, सौवस्तिको गुर्जरनिर्जराणाम् कुमारपुत्रेण कुमारमातुः, काव्यं तदेतज्जगदेकदेव्याः । श्रुति-स्मृति-व्याकृति-यज्ञविद्याविशारदेन क्रियते स्म तेन ॥ इति श्रीगुर्जरेश्वरपुरोहितश्रीसोमेश्वरदेवविरचिते सुरथोत्सवनाग्नि महाकाव्ये कविप्रशस्तिवर्णनो नाम पञ्चदशः सर्गः ॥ १कुमारनामकषिदुषः पुत्रेण सोमेश्वरदेवेन ॥ २ कुमारः स्कन्दस्तस्य मान गयाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002919
Book TitleVastupal Prashasti Sangraha
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1963
Total Pages154
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy