________________
सुरथोत्सवमहाकाव्यस्य वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवं,
श्रीप्रह्लादनमन्तरेण विरतं विश्वोपकारव्रतम् । डल्या तद् द्वयमत्र मन्त्रिमुकुटे श्रीवस्तुपाले कविस्तत्कीर्तिस्तुतिकैतवादिति मुदामुद्गारमारब्धवान्
॥५२॥ प्राग्वाटान्वयवारिधौ विधुरिव श्रीचण्डपः प्रागभूत् ,
सम्भूतोऽद्भुतसत्य-शौचसदनं चण्डप्रसादस्ततः । सोमस्तत्तनयो नयोज्वलमतिस्तस्याऽश्वराजः सुतः, पूतात्माऽथ तदङ्गभूः सुकृतभूः श्रीवस्तुपालोऽभवत्
॥५३॥ उत्कुल्लमल्लीप्रतिमल्लकीर्तिः, श्रीमल्लदेवोऽभवदप्रजन्मा । बभूव तस्यावरजश्च तेजःपालाभिधानः सचिवप्रधानम्
॥ ५४॥ श्रीवस्तुपालस्य चिरायुरस्तु, दिशां प्रकाशं दिशते सदा यः । कर्पूरकिर्मीरितकेरलस्त्रीरदावदातद्युतिभिर्यशोभिः क्षीणे चक्षुषि भेषजं भगवती कालीश्वरी देहिनां,
देहे चित्रविचित्रभाजि शरणं श्रीवैद्यनाथः प्रभुः । संसारज्वरजर्जरे हृदि सदा विष्णु विष्णुर्मुदे,
दौर्गत्ये च जिघांसिते गतिरसौ श्रीवस्तुपालः पुनः न वदति परुषा रुषाऽपि वाचः, स्पृशति परस्य न मर्म नर्मणाऽपि । विरमति मतिमानमात्यचन्द्रः, कचन च नार्थिकदर्थितोऽपि दानात् धनमनवरतक्षितीन्द्रसेवाश्रमसमवाप्तमयत्नतोऽपि दत्ते । अपरमपि परोपकारकं यद, विमृशति वस्तु तदेव वस्तुपाल: सत्यं ब्रुवे भवतु मा क्षतिरत्र काचिद् , भूत्वा खलप्रकृतिनाऽपि मयाऽतिमात्रम् । मन्त्री समे च विषमे च परीक्षितोऽसौ, दृष्टं न दुष्टमिह किश्चन सचरित्रे ॥ ५९ ॥ अयमनुदिनदानोत्कर्षितप्राणवर्ष परिचरितचरित्रः स्वस्तिमानस्तु मन्त्री ।
तुहिनकरसमानैर्यस्य कीर्तिप्रतानरजनिषत रजन्यः प्राप्तराकाविपाकाः ॥६० ।। लभन्ते लोकतः पापाः, शपानन्ये नियोगिनः । अधिकारमधिक्कारममात्यः शास्त्यसौ पुनः ॥ ६१ ॥
त एव स्तूयन्ते नृपतिपशुभिर्धीवरतया,
प्रजानामानायः सपदि खलु येभ्यः प्रपतति । तदित्थं सुस्थानां चकितचकितं कापि वसतां, सतां सम्प्रत्येकः सचिवशिवतातिर्भुवि भवान्
॥ ६२॥ १ हेमचन्द्रः कुमारपालराज्ये वि० सं १२२९ वर्षे स्वर्गमगमत् ॥ २ अयं प्रहादनपण्डितः सोमेश्वरपितुः कुमारस्य गुरुः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org