________________
१४,५३-७४ ]
चतुर्दश अध्याय महापिपीलिकाराशिविस्फुरंतो विपद्यते । उह्यानुत्तिष्ठते यत्र तत्र विद्यान्महद्भयम् ॥ श्वश्वपिपीलिकावृन्दं निम्नमूद्धं विसर्पति । वर्षं तत्र विजानीयाद्भद्रबाहुवचो यथा ॥ राँज्ञो(जो)पकरणे भग्ने' चलिते पातितेऽपि वा । क्रव्यादसेवने चैव राजपीडां समादिशेत् ॥ ५५ वाजि-वारण-यानानां मरणे छेदने द्रुते । परचक्रागमं विद्यादुत्पातज्ञो जितेन्द्रियः ॥ क्षत्रियाः पुष्पितेऽश्वत्थे ब्राह्मणाश्चाप्युदुम्बरे । वैश्याः प्लक्षेऽथ पीड्यन्ते न्यग्रोधे शूद्र-दस्यवः ॥ ५७ इन्द्रायुधं निशिश्चेतं' विप्रान् रक्तं च क्षत्रियान् । निहन्ति पीतकं वैश्यान् कृष्णं शूद्रभयङ्करम् ॥ ५८ भज्यते नश्यते तत्तु कम्पते शीर्यते जलम् । चतुर्मासं परं राजा म्रियते भज्यते तदा ॥ ५९ पितामहेषु सर्वेपुं धर्मवेन्द्रकृतं जलम् । त्रैमासिकं विजानीयादुत्पातं ब्राह्मणेषु तम् ॥ ६० रूक्षा विवर्णा विकृता यदा सन्ध्या भयानका । मारी कुर्युः सुविकृतां पक्ष-त्रिपक्षकं" भयम् ॥ ६१ यदा वैश्रवणे" गमने कश्चिदुत्पातः समुदीर्यते । राजानश्च सचिवांश्च पञ्चमासान् स पीडयेत् ॥ ६२ यदोत्पातोऽयमेकश्चिदृश्यते विकृतः कचित् । तदा व्याधिश्च मारी च चतुर्मासात् परं भवेत् ॥ ६३ यदा चन्द्रे वरुणे वोत्पातः कश्चिदुदीर्यते । मरकः सिन्धु-सौवीर-सुरांष्ट्र-वत्सभूमिषु ॥ ६४ भोजेषु च भयं विद्यात् पूर्वे" चे म्रियते नृपः । पञ्चमासात् परं विद्याद् भयं घोरमुपस्थितम् ।। ६५ रुद्रे च वरुणे कश्चिदुत्पतिः समुदीर्यते । सप्तपक्षं भयं विद्याद् ब्राह्मणानां न संशयः ॥ ६६ इन्द्रस्य प्रतिमायां तु यद्युत्पातः प्रदृश्यते । सङ्ग्रामे त्रिषु मासेषु राज्ञः सेनापतेर्वधः ॥ ६७ यद्युत्पातो बलन्देवे तस्योपकरणेषु च । महाराष्ट्रान् महायोद्धान् सप्त मासान् प्रपीडयेत् ॥ ६८ वासुदेवे यद्युत्पातस्तस्योपकरणेषु च । चक्रारूढाः प्रजा ज्ञेयाश्चतुर्मासान् वधो नृपे ॥ ६९ प्रद्युम्ने" वोऽथ उत्पातो गणिकानां भयावहः । विशालायां च द्रष्टव्यं भयं चेद्वाऽष्टमासिकम् ॥ ७० यदार्यप्रतिमायां तु किश्चिदुत्पातजं भवेत् । चौरा मासा त्रिपक्षाद्वी विलीयन्ति रजन्ति वा ॥ ७१ यद्युत्पातः श्रियाः कश्चित् त्रिमासात्कुरुते फलम् । वणिजां पुष्प-बीजानां निता-लेख्यजीविनाम् ॥७२
वीरस्थाने श्मशाने च यद्युत्पातः समीर्यते । चतुर्मासान् क्षुधा-मारी पीड्यन्ते व्रतनिश्चये *(ब्रतिनश्च ये) ॥ यद्युत्पातः(ताः) प्रदृश्यते(यंते) विश्वकर्मणि(र्माण)माश्रितः(ताः)। पीड्यन्ते शिल्पिनः सर्वे पञ्चमासात्परं भयम् ॥
७४ * These three sts. are not found in A BD but as they have got fitting context they have been embodied in the text. 1 Bafter भग्ने, दग्धे is found in this Ms. 2-3 A B these two words are missing in these Mss. 4 A स्वस्थे; B D श्वस्थे । 5C दासकः । GC इन्द्रियायुध । 7 C निश्वेतं। CThis is droppod in C. Therefore the first half of the succeeding st, forms the second half of every preceding st. in C. 8 Cपिता-महर्षि। C°सोमेषु। C धर्मदेशे तथा तले। 10 वर्षान्ते पक्षिकं। 11 BD वर्ष । 12 C परम् । 13A वै गमणे। 14 A it is not found in this Ms. 15 Cच ततः। 8A BD तारकेषु तु हारेषु सराष्ट्रवत् सभूमिपु॥ 16 A B D भोजनेषु। 17 A B D तत्र। 18-19 ABD सर्वेषु । 20A चन्द्रे; B सद्रे; D साढ़े। 21 A उत्पादः। 22 C फलं। 23 Cवले कश्चिन् । 24 C सर्वे। 25C परी भयम् । 26A भवेत् । 27-28C प्रक्वचित्त । || Aविशीला चैव वृष्टश्च; BD विशीलां चैव दृष्टश्च । - ABD सर्वा दुष्टस्य मासिकः। 29 A नृपक्षाय ।%C पीड्यन्ते नात्र संशयः। 30A स्त्रियः। 31C मासात् । * C तथा लेख्योपजीविनाम्। 32Cसमीहते। 33 C°चा। 34A व्रतिश्च ये; Bकृतनिश्चयः। 35ABD°मासातुरं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org