________________
॥ सिंघीजैनग्रन्थमालासम्पादकप्रशस्तिः ॥
1140K
स्वस्ति श्रीमेदपाटाख्यो देशो भारतविश्रुतः । रूपाहेलीति सन्नानी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमच्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाप्रणीः ॥ मुञ्ज-भोजमुखा भूपा जाता यस्मिन् महाकुले । किं वर्ण्यते कुलीनस्वं तस्कुलजातजन्मनः ॥ पत्नी राजकुमारीति तस्याभूद् गुणसंहिता । चातुर्य रूप लावण्य सुवाक्- सौजन्यभूषिता ॥ क्षत्रियाणी प्रभापूर्ण शौर्योद्दीप्तमुखाकृतिम् । यां दृष्ट्वैव जनो मेने राजन्यकुलजा वियम् ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल इति चान्यद् यन्नाम जननीकृतम् ॥ श्रीदेवी हंसनामात्र राजपूज्यो यतीश्वरः । ज्योति भैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो मरुदेशाद् यो भ्रमन् जनपदान् बहून् । जातः श्रीवृद्धिसिंहस्य प्रीति श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णास तरसूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ दौर्भाग्यात् तच्छिशो बल्ये गुरु-तातो दिवंगतौ । विमूढः स्वगृहात् सोऽथ यच्छया विनिर्गतः ॥
Jain Education International
तथा च
नैकेषु देशेषु सेवित्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैन मुनिस्ततः ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातत्त्वगवेषिणा ॥ अधीता विविधा भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रन-नूतनकालिकाः ॥ येन प्रकाशिता नैके ग्रन्था विद्वत्प्रशंसिताः । लिखिता बहवो देखा ऐतिह्यतथ्यगुम्फिताः ॥ बहुभिः सुविद्वद्विस्तन्मण्डलैश्च सत्कृतः । जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीषिषु ॥ यस्य तां विश्रुतिं ज्ञात्वा श्रीमद्गान्धी महात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहम्मदाबादे राष्ट्रीय शिक्षणालयः । विद्यापीठ इति ख्यात्या प्रतिष्ठितो यदाऽभवत् ॥ आचार्यखेन तत्रोच्चैर्नियुक्तः स महात्मना । रस-मुँनि-निधीन्द्वेदे पुरातत्वा ख्य मन्दिरे ॥ वर्षाणामष्टकं यावत् सम्भूष्य तत् पदं ततः । गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् ॥ तत आगत्य सँलमो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्माप्तो येन स्वराज्यपर्वणि ॥ क्रमात् ततो विनिर्मुक्तः स्थितः शान्ति निकेतने । विश्ववन्द्यकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिंघीपदयुतं जैन ज्ञान पीठं तदाश्रितम् । स्थापितं तत्र सिंघी श्री डालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातस्य जैमज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसन्ज्ञके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाकायम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे ोषा प्रारब्धा ग्रन्थमालिका ॥ अथैवं विगतं यस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासार्थिप्रवृत्तिषु प्रयस्यतः ॥ बाणे-र-नेवेन्द्रेन्दे मुंबाईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालधीसखः ॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मितौ । कर्मनिष्ठस्य तस्याभूत् प्रयतः सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् संस्था जाता प्रतिष्ठिता । भारतीय पदोपेत विद्या भव न सब्ज्ञया ॥ आहूतः सहकार्यार्थ स मुनिस्तेन सुहृदा । ततः प्रभृति तत्रापि सहयोगं प्रदत्तवान् ॥ तद्भवनेऽन्यदा तस्य सेवाऽधिका ह्यपेक्षिता । स्वीकृता नम्रभावेन साऽप्याचार्यपदाश्रिता ॥ नन्दे-निध्य के - चन्द्रान्दे वैक्रमे विहिता पुनः । एतद्ग्रन्थावली स्थैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिंघी कुलभास्वता । भा विद्या भ व ना येयं ग्रन्थमाला समर्पिता ॥ प्रदत्ता दशसाहस्री पुनस्तस्योपदेशतः । स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ दैवादरूपे गते काले सिंघीवर्यो दिवंगतः । यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ॥ पितृकार्यप्रगत्यर्थं यत्रशीलैस्तदा मजैः । राजेन्द्र सिंहमुख्यैश्च सस्कृतं तद्वचस्ततः ॥ पुण्यश्लोक पितुर्नाम्ना मन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो ह्यर्द्धलक्षं प्रदत्तवान् ॥ ग्रन्थमालाप्रसिद्ध्यर्थं पितृवत् तस्य कांक्षितम् । श्रीसिंघी बन्धुभिः सर्वं तद्गिराऽनुविधीयते ॥ विद्वज्जनकृताह्लादा सच्चिदानन्ददा सदा । चिरं नन्दत्वियं लोके जिन विजय भारती ॥
*
For Private & Personal Use Only
२
३
४
५
९
१०
99
१२ १३
१४
१५ १६
१७
१८
१९
२०
२१
२२
२३
२४
२५
२६
२७
२८
२९
३०
३१
३२
३३
३४
१५
T
३७
३८
३९
४२
www.jainelibrary.org