________________
१७
॥ सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः॥
- reacoccorअस्ति बङ्गाभिधे देशे सुप्रसिद्धा मनोरमा। मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी ॥ बहवो निवसम्त्यत्र जैना ऊकेशवंशजाः धनाढ्या नृपसम्मान्या धर्मकर्मपरायणाः॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघीकुलप्रभाकरः॥ बाल्य एवागतो यश्च कतुं व्यापारविस्तृतिम् । कलिकातामहापुयां धृतधर्मार्थनिश्चयः॥ कुशाग्रीयस्वबुद्ध्यैव सद्वृत्त्या च सुनिष्टया। उपायं विपुलां लक्ष्मी कोट्यधिपोऽजनिष्ट सः॥ तस्य मनुकुमारीति सनारीकुलमण्डना । अभूत् पतिव्रता पत्नी शीलसौभाग्यभूषणा । श्रीबहादुरसिंहाख्यो गुणवाँस्तनयस्तयोः। अभवत् सुकृती दानी धर्मप्रियश्च धीनिधिः॥ प्राप्ता पुण्यवता तेन पत्नी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्ठ पुत्रः सुशिक्षितः। यः सर्वकार्यदक्षत्वात् दक्षिणबाहुवत् पितुः॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः। सूनुवीरेन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः॥ सन्ति त्रयोऽपि सत्पुना आप्तभक्तिपरायणाः। विनीताः सरला भव्याः पितुमार्गानुगामिनः॥ अन्येऽपि बहवस्तस्याभवन स्वस्त्रादिबान्धवाः। धनैर्जनः समृद्धः सन् स राजेव व्यराजत॥
अन्यश्चसरस्वत्यां सदासक्तो भूत्वा लक्ष्मीप्रियोऽध्ययम् । तत्राप्यासीत् सदाचारी तञ्चित्रं विदुषां खलु॥ नाहंकारो न दुर्भावो न विलासो न दुर्व्ययः । दृष्टः कदापि तद्गेहे सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां स विनीतः सजनान् प्रति । बन्धुजनेऽनुरक्तोऽभूत् प्रीत: पोष्यगणेष्वपि ॥ १५ देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि-साहित्य-संस्कृति-सस्कलाप्रियः॥ समन्नस्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं धनम्॥ गरवा सभा-समित्यादी भूत्वाऽध्यक्षपदान्वितः । दत्वा दानं यथायोग्यं प्रोत्साहिताश्च कर्मठाः॥ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया । अकरोत् स यथाशक्ति सत्कर्माणि सदाशयः ॥ अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कतु किञ्चिद् विशिष्टं स कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग्-ज्ञानरुचिः स्वयम् । तस्मात् तज्ज्ञानवृद्ध्यर्थं यतनीयं मयाऽप्यरम् ॥ २१ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि तादृशाम् ॥ २२ जैनज्ञानप्रसारार्थ स्थाने शान्ति नि के त ने । सिंघीपदाङ्कितं जैन ज्ञा न पीठ मतीष्टिपत् ॥ श्रीजिन विजयः प्राज्ञो मुनिनाम्ना च विश्रुतः । स्वीकर्तुं प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ २४ तस्य सौजन्य-सौहार्द-स्थैयौदार्यादिसतणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण स्वीयपावनपाणिना । रस-नांगाई-चन्द्राब्दे तत्प्रतिष्ठा व्यधीयत ।।
२६ प्रारब्धं मुनिना चापि कार्य तदुपयोगिकम् । पाठनं ज्ञानलिप्सूनां ग्रन्थानां प्रथनं तथा ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे चैषा प्रारब्धा ग्रन्थमालिका ॥ उदारचेतसा तेन धर्मशीलेन दानिना। व्ययितं पुष्कलं व्यं तत्तत्कार्यससिद्धये ॥ छात्राणां वृत्तिदानेन नैकेषां विदुषां तथा। ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् ॥ जलवाय्वादिकानां तु प्रातिकूल्यादसौ मुनिः। कार्य त्रिवार्षिकं तत्र समाप्यान्यत्र चास्थितः ॥ तत्रापि सततं सर्व साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः॥ नन्द-निध्यके-चन्द्राब्दे जाता पुनः सुयोजना । ग्रन्थावल्याः स्थिरत्वाय विस्तराय च नूतना॥ ततः सुहृत्परामर्शात् सिंघीवंशनभस्वता । भा विद्या भ व ना येयं ग्रन्थमाला समर्पिता ॥ आसीत्तस्य मनोवान्छाऽपूर्वा ग्रन्थप्रकाशने । तदर्थ व्ययितं तेन लक्षावधि हि रूप्यकम् ॥ दुर्विलासाद् विधेर्हन्त ! दौर्भाग्याचात्मबन्धूनाम् । स्वल्पेनैवाथ कालेन स्वर्ग स सुकृती ययौ। इन्दु-ख-शून्य नेत्राब्दे मासे आषाढसज्ञके । कलिकाताख्यपुर्या स प्राप्तवान् परमां गतिम् ॥ पितृभक्तश्च तत्पुत्रैः प्रेयसे पितुरात्मनः । तथैव प्रपितुः स्मृत्यै प्रकाश्यतेऽधुना पुनः॥ इयं ग्रन्थावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्रथा। भूयाद् भूत्यै सतां सिंघीकुलकीर्तिप्रकाशिका ॥ विद्वजनकृताहादा सच्चिदानन्ददा सदा । चिरं नन्दस्वियं लोके श्रीसैंधी ग्रन्थपद्धतिः ॥
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org