________________
६२
भद्रबाहुसंहिता
[२३, ३६-५८ यस्य नक्षत्र-गतौ कुर्यात् ता (?)वर्णसंकरम् (?) । विनाशं तत्र जानीयाद् विपरीते जयं वदेत् ॥ ३६ बहुवोदयको (?)वाऽथ ततो भयप्रदो भवेत् । मंदघाते फलं मन्दं मध्यमं मध्यमेनं तु ॥ ३७ चन्द्रमाः सर्वघातेन सोष्ट्रजाश्च(?)भयङ्करः । तथापि नागरान हन्यात् यदा ग्रहसमागमे ॥ ३८ नागराणां तदा भेदो विज्ञेयस्तु पराजयः । यायिनामपि विज्ञेयं तदा युद्धं परस्परम् ॥ ३९ स्थावरा गुरवः प्राप्तो पुष्पोभिस्छत्रया(?)सह । शकस्य चापरूपं" च ब्राह्मी" गुदभदृशाम् (?) ॥ ४० क्षत्रियाश्च भुवि ख्याताः कोशाम्बी देवता अपि । पीड्यन्ते तद्भक्ताश्च सङ्घामाश्च गुरोर्वधः ॥ ४१
पशवः पक्षिणो वैद्या महिषाः शबराः शकाः ।
सिंहलाः द्रामिलाः(द्रविडाः)" काची बंधुकाः पल्हवी नृपाः ॥ पुलिन्द्राः कोकणा भोजाः कुरवो दस्यवः क्षमाः । शनैश्चरस्य घातेन पीड्यन्ते यवनैः सह ॥ ४३ यस्य यस्य च नक्षत्रमेकशो द्वन्द्वशोऽपि वा । ग्रहा वामं प्रकुर्वन्ति तं तं हिंसन्ति सर्वशः ॥ ४४ जन्मनक्षत्रघातेऽथ राज्ञो यात्रा न सिद्ध्यति । नागरेण हतश्चाल्पः स्वपक्षाय न यो भवेत् ॥ ४५ जी चावनिजा गर्भा नागरा दारुजीविनः । गोपा गोजीविनश्चापि धनुस्सशामजीविनः ॥ ४६ तिलाः कुलस्था माषाश्च माषा मुद्गाश्चतुष्पदाः । पीड्यन्ते बुधघातेन स्थावरं यच्च किश्चन ॥ ४७ कनकं मणयो रत्नं शकाश्च यवनास्तथा । गु(छ)हारीः पह्नवा मुख्याः क्षत्रिया मत्रिणो बलम् ।। ४८
स्थावरस्य(राश्च)वनीकोकुनये"(?)सिंहला नृपाः ।
वणिजां (जो") वनशख्यं (?)च पीड्यन्ते सूर्यघातने ॥ पौरेयाः शूरसेनाश्च शका बाल्हीकदेशजाः । मत्स्याः कच्छाश्च वस्याच सौवीराः सौधिकास्तथा ॥ ५० पीड्यन्ते केतुघातेनं ये च सत्त्वास्तथाश्रयाः । निर्घाता पापवर्ष वा विज्ञेयं बहुशैस्तथा ॥ ५१ पाण्ड्याः केरलाश्चोलीः सिंहलाः साविकास्तथा । कुपनास्तेतयार्याश्च मूलका वनवासकाः॥ किष्किंधाश्च कुनाटाश्च प्रत्यग्राश्च वनेचराः । रक्त-पुष्प-फलाश्चैव रोहिण्यां चन्द्र-सूर्ययोः ॥ एवं च जायते सर्व कुर्वन्ति विकृतिं यदा । तदा प्रजा विनश्यन्ति दुर्भिक्षेण भयेन च ॥ ५४ अर्धमासं यदा चन्द्र ग्रहा यान्ति विदक्षिणम् । तदा चन्द्रो जयं कुर्यान्नागरस्य महीपतेः ।। ५५ हीयमानं यदा चन्द्र ग्रहाः कुर्वन्ति वामतः । तदा विजयमाख्याति नगरस्य महीपतेः ॥ ५६ गति-मार्गा-कृति-वर्णमण्डलान्यपि वीथयः । चार-नक्षत्रचारांश्च ग्रहाणां शुक्रवद् विदुः॥ ५७
चन्द्रस्य चारं चरतोऽन्तरिक्षे सुचारदुश्चारसमं प्रचारम् ।
चोर्युतः खेचरसुप्रणीतो यो वेद भिक्षुः स चरेन्नृपाणाम् ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते चन्द्रचारसंज्ञो नाम त्रयोविंशोऽध्यायः॥
____ 1 A D गोत्रे। 2 B D ता। 3 B बहवोदधिकः, D बहुवोदधिकः। 4-5 B D मरणं तथा। 6 A मरणं । 7 B सोष्टद्राजा; D सौष्टद्राजा। 8A नागरा। 9A missing. 10-11 A सकस्य वायरूपं। 10-15 D सहसकस्य वि परषं पंच च ब्रह्मी गुदसदृशान् । 16 B बुधः। 17 B विद्याः। 18 A शुकाः। 19 BD मिलाः। 20 D कावाः। 21 BD चुचुकाः। 22 A B पल्लवाः। 23 A B वृषाः। 24 A राज्यं । 25 A नागराणां। 26-27 A राज्ञाच्च । 28 A कुलस्थाः । 29 B तथैव च। 30 D गुणराः । 31 B वीनाटाः। 32 B कुनाशः। 33 D वसिजां। 34 D वनसंख्याः । 35 B गोरेयाः। 36 D वास्याः। 37 A B सौगन्धिजाः। 38 A °पातेन । 39 A बहुना। 40A खण्डयाः। 41 A स्वोलाः। 42 A बनकसक । 43 A °दयं । 44 A मंडलान्। 45 A पथ । 46 B चार्या, वार्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org