________________
२३, ९-३५]
त्रयोविंश अध्याय चतुर्थी पञ्चमी षष्ठी विपर्णो विकृतः शशी । यदा मध्येन वा याति पार्थिवं हन्ति मालवम् ॥ ९
काञ्ची किरातान द्रमिलान (द्रविडान ) शाक्यान लुब्धां(?)स्तु सप्तमी ।
कुमारं युवराजानं चन्द्रो हन्यात तथाऽष्टमी ॥ नवमी मत्रिणश्चौरान रध्वगान् वरसंनिभान् । दशमी स्थविरान् हन्यात् तथा वै पार्थिवान प्रियान् ॥ ११ एकादशी भयं कुर्यात् ग्रामीणांश्च तथा गवाम् । द्वादशी राजपुरुषांश्च वस्त्रं सस्यं च पीडयेत् ॥ १२ त्रयोदशीचतुर्दश्योभयं शस्त्रं च मूर्छ ति" । संग्रामः संभ्रमश्चैव जायते वर्णसंकरः॥ १३ नृपा भृत्यैर्विरुध्यन्ते राष्ट्रं चौरविलुप्यते । पूर्णिमायो" हते चन्द्रे ऋक्षे वा विकृतप्रभे ॥ १४ हस्खो रूक्षश्च चन्द्रश्च श्यामश्चापि भयावहः । स्निग्धः शुक्लो मही(हा)श्रीमांश्चन्द्रो नक्षत्रवृद्धये ॥ १५ श्वेतः पीतश्च रक्तश्च कृष्णश्चापि यथाक्रमम् । सुवर्णसुखदश्चन्द्रो विपरीतो भयावहः ॥ १६ चन्द्रं प्रतिपदे(दि) योऽन्यो ग्रहः प्रविशते शुभः । संग्राम जायते तत्र सप्तर्राष्ट्रविनाशनः ॥ १७ द्वितीयायां" तृतीयायां गर्भनाशाय कल्पते । चतुर्थ्यां च सुथाती च मन्दवृष्टि(ष्टिं)च निर्दिशेत् ॥ १८ पञ्चम्यां ब्राह्मणं सिद्धान् दीक्षितांश्चापि पीडयेत् । यवनाय च कस्तानि(?)षष्ठ्यां पीडां व्रजन्यतः॥ १९ महाधनाश्च पीड्यन्ते क्षिप्रमैक्षुरकास्तथा। ईतयश्चापि जायन्ते सप्तम्यां सोमपीडने ॥ २० विवर्णपुरुषश्चन्द्रो स्त्रीणां राजा निषेवते" । कपिलोऽपि दक्षिणे मार्गे विन्द्यादग्निभयं तदा ॥ २१ सन्ध्यायां" कृत्तिका ज्येष्ठां रोहिणी पितृदेवताम्। चित्रां विशाखां मैत्रं च चरेद् दक्षिणतः शशी ॥ २२ सर्वभूतभयं विद्यात् तदा घोरं तु मासिकम् । सस्यं वर्ष च वर्धन्ते चन्द्रस्तद्वद् विपर्ययात् ॥ २३ रेवती-पुष्ययोः सोमः श्रीमानुत्तरगो यदा । महावर्षाणि कल्पन्ते तदा कृतयुगं यथा ॥ गोवीथीमजवीथीं वा वैश्वानरपथं तथा। विवर्णः सेवते चन्द्रः सदाऽल्पमुदकं भवेत् ॥ गजवीभ्यां नागवीध्यां सुभिक्षं क्षेममेव च । सुप्रभे प्रकृतिस्थे च महा(हद्)वर्षं च निर्दिशेत् ॥ २३ वैश्वानरपथं प्राप्ते" चतुरङ्गं तु दृश्यते । सोमो विनाशकृल्लोके तदा वाऽग्निभयङ्करः॥ अजवीथीमागते चंद्रे क्षुत्तृषाग्निभयं" नृणाम । विवर्णो हीनरश्मिर्वा भद्रबाहुवचो यथा ॥ २८ गोवीभ्यां नागवीध्यां च चतुर्थ्यां दृश्यते शशी। रोग-शस्त्राणि वैराणां(णि)वर्षस्य(र्षाणि) च विवर्धयेत॥२९ ऐरावणे चतुष्प्रस्थो" महावर्षः स उच्यते । इन्द्रः प्रकृतिसंपन्नः सुरश्मिः श्रीरिवोज्ज्वलः ॥ ३० श्यामच्छिद्रश्च पक्षादौ यदा दृश्यते पा(?)सितः । चन्द्रमा सैस(गैर)वं घोरं नृपाणां कुरुते तदा ।। ३१ धनुषा यदि तुल्यः स्यात्पक्षादौ दृश्यते शशी। ब्रूयात् पराजयं पृष्ठे पद्यो" (?) प्रतिविनिर्दिशेत् ॥ ३२ वैश्वानरपथेऽष्टम्यां तिर्यस्थो वा भयं भवेत् । परस्परं विरुध्यन्ते नृपाः प्रायः सुवर्चसः॥ ३३ दक्षिणं मार्गमाश्रित्य वध्यन्ते प्रवरा नराः। चन्द्रस्तूत्तरमार्गस्थः क्षेम-सौभिक्षकारकः ॥ ३४ चन्द्र-सूर्यो विशृङ्गौ तु मध्यच्छिद्रौ हतप्रभौ । युगान्तमिव कुर्वन्तौ तदा यात्रा न शस्यते ॥ ३५
२४
२७
س
سه
1-2 A मध्ये मवा। 3 A स्थाक्या। 4Aलुब्ध्यं । 5 BDचर। 6D पार्थिवैः। 7 D प्रियानू । 8-9 B मासि नीचं; D गामिनी च । 10 D गवी। 11 B मूर्छितः, D मूछति । 12 BD पौर्णमास्यां। 13 A inissing. 14 A महीमान्; D महीश्रीमान् । 15 B राष्टं । 16 A विनाशनम् B विनाशते। 17 Bचन्द्रेण द्वितीयायां। 18 B not found. 19 A B महावनाश्च । 20A ऐखरकाः। 21 A स भूम्यां । 22 Aनिरोचते; D निवेशते। 23 A कतोऽपि। 24 D सन्ध्यानं । 25 A not found. 26 D not found. 27-28 A क्षुद्रशस्त्राग्निजं भयम् । 29 A D राग। 30 B चौराणां। 31 Bचतुर्थस्थः: D चतुर्थस्थौ। 32 A या। 33 B D पृष्ठः। 34 B पध्यो Dथ्यो । 35 B आसृत्या । 36 A बध्यन्ते। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org