SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ भर्तृहरिसुभाषितसंग्रहे Group IV: Apocrypha. 1. The Vitavrtta. [DC 11970; the first stanza is SBH. 10, with the citation "Vitavrttasya, "1 नितम्बालसगामिन्यः पीनोन्नतपयोधराः । मन्मभाय नमस् तस्मै यस्यायतनमङ्गनाः १ ॥ मुदितमनोभवहासो रमणोरसि मुष्टिवातजो जयति । श्रुतिसुखमणितविमिश्री वलयावलिकलकलो विलासिन्याः ॥ २ ॥ यासामर्जनशीलत्वान् न द्वेष्योऽस्ति न च प्रियः । न कृतं न च सद्भावो वञ्चनाबद्धचेतसाम् ॥ ३॥ आकारवेषसौभाग्यैः कन्दर्पप्रतिमोऽपि सन् । यासां संगममासाद्य प्राप्तः को वा न वञ्चनाम् ॥ ४ ॥ आजीवोच्छित्तये यासां प्रीतिद्वेषावुभौ हि तौ । कथं नु खलु तौ तासां स्यातामुपरि कस्यचित् ॥ ५ ॥ पश्चात्तापकरी यासां सर्वनाशसमुद्भवः । सदावसान विरसः संगमो जायते नृणाम् ॥ ६ ॥ आसमस्ताक्षिविक्षेपसमर्पितमनोभुवाम् । मन्मथोद्दीपनं तासां विटवृत्तं विधास्यते ॥ ७ ॥ रमन्ते किं न पशवः प्राणिधर्मानुवर्तिनः । वैदग्ध्यं कीदृशं पुंसां विटवृत्तमजानताम् ॥ ८॥ विवृत्तं पठन् नार्या नरो यद्यपि मुह्यति । तथाप्यत्र विशेषोऽस्ति संनद्धस्येतरस्य वा ॥ ९ ॥ यत्र तत्रावलग्नासु प्रतिक्षणनिवर्तिषु । संपत्स्विव विदग्धानां रतिर्वेश्यासु कीदृशी ॥ १० ॥ विनोदमात्रमेवेदमिति यस्यावधारणा । विटवृत्तं स जानाति स कामफलमश्रुते ॥ ११ ॥ उदयस्थः सहस्रांशुर्द्दष्टेरायाति गम्यताम् । अतिरिक्तं कदा कं वा लङ्घयन्ति न योषितः ॥ १२ ॥ आकारसंवृतिः कार्या सुरक्तेनापि कामिना । २०६ रक्तः परिभवं याति परिभूतः कथं प्रियः ॥ १३ ॥ अरक्ते न सुखं वेत्ति नारक्तो दुःखमश्नुते । दुःखानां च सुखानां च रक्त एवास्पदं सदा ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy