________________
विटवृत्तम् । रक्तः श्वसिति दीर्घाणि रक्तो लजां विमुञ्चति । नाकार्यमीक्षते रक्तोरक्तो यात्यपहास्यताम् ॥१५॥ परतत्र:-सदा रक्तश् चरणौ पण्ययोषिताम् । नापिताङ्गुष्ठषत् कामी संस्पृष्टं लभते यदि ॥१६॥ शेते मया यथा सार्ध सान्येनापि तथा यदि । हा हतोऽसीति संरक्तो ध्यायन्नित्थं न जीवति ॥ १७ ॥ क आलप्तः प्रियः कोऽस्याः कं ध्यायति कमीक्षते । इति चिन्ता न यस्यासीत् स पूज्यः पण्ययोषिताम् ॥ १८॥ सुप्तान्येन सहान्येयं श्वो मां संभावयिष्यति । न चेच् छो विततं किं स्यादिति ध्यायन् प्रियो भवेत् ॥ १९ ॥ सेवतेऽवसरप्राप्तावप्राप्तौ यो न दुःखितः। न दुःखाभिभवम् तस्य पण्यनारीषु जायते ॥ २०॥ सुखोपायमशक्यं च यस्य चेष्टितमीदृशम् । नासावपैति मनसः स्त्रीणामा मरणादपि ॥ २१ ॥ नाकाले नानवसरे या नुन्ना दूतपूर्वकम् । वेश्यावेश्मनि कर्तव्यं नान्यत् कामुकसंनिधौ ॥ २२ ॥ नात्यन्तं दर्शयेद् देयं न चात्यन्तमदर्शनम् । ईर्ष्याभावो न चात्यन्तं कोपो नात्यन्तमिष्यते ॥ २३ ॥ ईर्ष्याद्धि कुप्यते वेश्या प्रसङ्गाच् च विरज्यते । स्तब्धातिगमनाच् चापि दानादपि विलुप्यते ॥ २४ ॥ ग्राह्यं नाम न चान्यस्य कामुकस्य तदग्रतः। प्रसङ्गो नातिकर्तव्यं पूर्व किंचिन् न मूचिते ॥ २५॥ देष्यः स्यात सूचिताभावे प्रयासन्यत्र कौतुकम् । अकामा चान्यकामा च निद्राकान्तेक्षणापि वा। असंजातरतेच्छा च नाभियोज्याबला बलात॥ २६ ॥ आविष्करोति न स्नेहं रागं बनाति नो रते। अभियुक्ता तु मन्देच्छा सान्यकामा तु कामिनी ॥ २७ ॥ आलापयत्यकार्याणि किंचिदाख्याति वा स्वयम् । या न प्रयाति शयनं साप्यनुत्पन्नसस्पृहा ॥ २८ ॥ संचिन्तिता किमन्यं कं को वान्यो हृदये स्थितः। ज्ञातमेव मया त्वेष यथाहं न प्रियस तव ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org