________________
श्रीभोजदेवविरचिता क्षेत्रभुवोऽनुकर्तुमितस्ततः प्रचलितेषु कोलकुलेषु, अति” सौहित्यान्मन्थरप्रचलितेषु रोमन्यायमानेषु गतिवशप्रचलकन्धराबद्धशब्दायमानक्षुद्रघण्टकध्वनितदत्तकर्णेषु श्रमवशात् किमपि निःसह [F. 72. B]लोचनेषु वनेभ्यो वसतिमनुव्यावर्तमानेषु गोधनेषु, प्रविरलायौतपथिकेषु स्थितप्रायेषु पथिषु, विमुच्य प्रचारभूमीरुपवनकुलायपादायां" (पादपच्छायायां ?)सिसर्पिषमाणे समापतति सत्वरे पतङ्गकुले, अतिकठोरतपनतापग्लपितेष्वपराहपवनसम्पर्कसुखितेष्विव शैत्यमुद्दाह]त्सु दिअखेषु, "मादस्ताचलशिखरशेखरतामाजगाम तरुणताम्रचूडारुणिमसोदरं शोणिमानमुद्वहन्नरुणसारथिः । लाक्षारसलोहितैत्रिसरत"न्तुविसरैरिव किरणनिकरैररुणमन्तरमकरोत् तन्तुवाय इव दिवसपरिणामसमयः । अन्तरान्तरोपलक्ष्यमाणबहलसन्ध्यातपच्छेदामिर "नच्छाभिः पादपच्छायाभिरश्लिष्टाः सश्चरद्वनदेवताचरणसान्तालक्तकार]साङ्किता इव व्यराजन्तोपवनभूमयः। अस्त- [F. 73. A गिरिशिखरवर्तिनो विकर्तनस्य प्रभाजालेन विच्छुरितानि तत्क्षणोपसीदविरहवेदनास्फुटितचक्रवाकमिथुनहृदयसँतेनासृजेब शो"णिमानमानीतानि विरेजुः सलिलाशयानां सलिलानि । दलितदाडिमीकुसुमसोदरेण तरणेरंशुजालेन संवलितानि कुङ्कुमरसमार्जितानीव प्रत्यभासन्त प्रतिसौधममलस्फटिकमणिकुट्टिमानि । तत्क्षणमुक्षुभ्यतो मिथुनरागसागरस्य भुवनमाक्रामन्ती वेलेव समुल्ल"लास सन्ध्या । अवर्धयञ्च परस्परगुणानुस्मारकतया अत्यर्थमुत्कतामापादयन्ती दूतीव मिथुनमानसेषु द्विगुणतरमनुरागं निद्रावशविसंस्थुलनिमीलनयनपुटैः स्थित्वा क्षणमुत्क्षिप्तपक्षतिभिरुद्रीवमालोक्यालोक्य निर्वाग्भिरध्यास्यन्त मणिबाष्पला"-[ F. 73. B]
[अत्राद” ७४ अङ्काङ्कितं पत्रं विनष्टम् ] ......यायातिमिरभरनिरुद्धमप्युच्छ्सितमिव क्षणमलजत । गगनतलमनु च कुङ्कुमरसमार्जनोपजनितपिञ्जरत्विषोऽन्तर्विरचि"........"दविशेषकस्य हूणहरिणीदृशो ललाटफलकस्य श्रियमुद्वहद्विनिद्रकर्णिकारप्रकरगौरच्छविस्तोकोपलक्ष्यमाणलाञ्छनमु.........१ य शशधरौर्द्धम् । अथ क्रमेणैवैकः कनकताडङ्क इव शतमहदिगङ्गनायाः, कुङ्कुमरसतिलकबिन्दुरिव यामिनीमुखस्य, भास्वरकात"खरदर्पण इव दिग्वधूनाम् , विकचमेकं कनकपङ्कजमिव गगनसरसः, स्रस्ततिमिरांशुकैकदेशायाः कुङ्कुमोन्मृष्टः प्रकट एकः कुचकलश" इव दिवः, करतलरागरञ्जितः क्रीडाकन्दुक इव रतेः, जात्यशातकुम्भसम्भवो भाविसाम्राज्याभिषेककलश इव मनोभवस्य, उल्ललास चित्तजन्मनो जीवातुर्जीवितकुमुदकाननः कुमुदिनीनाथः । ततश्च प्रसादितरामः (१) समुत्तीर्य सलिलराशिमृक्षपरिवृतसमुल्लासितकुमुदो"
१ कोलकुलो। २ वतेभ्यो। ३ प्रविरलायतत्पथि । ४ सारथि। ५ रुणमंघरम् । ६ संकान्ता। ७ सुतेना। ८ सवलितानि । ९ विनष्टान्यत्र ३-४ अक्षराणि । १० विनष्टान्यत्र ३-४ अक्षराणि । ११ विनष्टान्यत्र ३-४ अक्षराणि । १२ धरार्थम् । १३ कुक्कोकान्मृष्टः। १४ जीवितुजी ।
Jai Education International
For Private & Personal Use Only
www.jainelibrary.org