________________
श्रीभोज देवविरचिता
(2)
(3)
अस्त्यत्र भुवनत” लप्रसिद्ध मतिविभववणिग्व्यवहर कवच्च (१) प्रभृतिभिर्महार्जनैरधिष्ठि तम् अहिच्छत्रं नाम नगरम् । तत्र च वज्रमुकुटो नाम राजा पितृक्रमागतामात्ये भुजावष्टम्भेनापहस्तिितसमीपसामन्तचक्रः क्रमेणैवाकान्तसकलहप्ता रातिबलः प्रबलपरिवारपरिवृतो राज्यमनुपालयंस्तदीयसुखा " न्यनुभवंश्च सुचिरमासाञ्चक्रे । तत्र च पितृक्रमेणैव सञ्चितविशिष्टार्थतयाऽतिमहाधनस्तैलिको घुडाभिधानः प्रतिवसति स्म । तस्य चाति" रूपयौवनसम्पन्ना मदनस्य क्रीडापुत्रिकेव यौवनस्याभरणं लावण्यस्यापि लावण्यं भार्या लावण्यसुन्दरी नामासीत् । तस्यास्तु न केवलं [ F. 69. B ]स्वजातिविलक्षणमेव रूपमितरसमस्तनारीनिकुरुम्बविडम्बि सकलजन विस्मयैकायतनं च । अथ तस्य तया सह "रतिसुखमनुभवतः सुखेनातिक्रामन्ति वासराः । अथैकदा भ्रमणिकया निर्गतस्य तस्य नरपतेः सा निजभवनवर्तिनी दृक्पथमवततार । तां दृष्ट्वा विस्मित इव स्तम्भित इव मूढ इव गाढमन्मथशरप्रहारविवशः कथं कथमपि स्वगृहमयासीत् । अभूच्चास्य मनसि - ' कथमियं प्राप्यते ? यदि नैनां प्रामोमि तदा नियतमहं जीवितुमपि नोत्सहे । ' ततः साचारपुरुषेभ्यस्तैलिक घुडाक भार्येयमित्यज्ञासीत् । ज्ञात्वा चाचिन्तयत् यद्- 'एनां केनोपायेनात्मसात् करोमि ।' ततस्तं कमपि रससङ्करकरणादिदूषणव्याजमुत्पाद्य विधारितवान् । प्रतिपाद्यमानदण्डेन तेन द्रव्यलक्षाण्यपि " दीयमानानि न प्रत्यपद्यत प्रत्युत विविधाभिः पीडाभिः कदर्थितवानेवैनम् । ततो लावण्यसुन्दर्या तदीयाशयं सम्यगुपलभ्य स निजपतिरिद - [ F. 70. A ] मभ्यधायि - ' यं कमपि दण्डमेष नरपतिर्याचते तमपि प्रतिपद्य त्वया यथा कथञ्चिदात्मा मोचयितव्यः । ततस्तेन नरपतिरभ्यधायि - 'यदि द्रम्मसुवर्णादिकं देवो दीयमानमपि न गृह्णाति तदाऽऽदिशतु किमन्यद् दीयताम्, यदादिशति देवस्तमवश्यं प्रयच्छाम्येव ।' ततो राज्ञा 'क्व किलास्यैतद् भविष्यति' इति मन्यमानेन विवक्षितद्विरदशतमसावयाच्यत । तत् श्रुत्वा तैलिकस्य महाक्षोभः समजनि- 'अहो कास्मदीया जातिः, क्व करिणः ? तत् सर्व्वथा हतोऽहं नष्टोऽहम् । का मे गतिः । किं शरणम् ?" इति चिन्ताशतसन्तानव्याकुलितचित्तो यावदास्ते तावद् लावण्यसुन्दर्या 'किं राज्ञा दण्डे याचितस्त्वम् ? इत्यपृच्छ्यत । ततोऽत्यन्तक्षुभितेनानेन कथितम् -' यदहं करिशतमनेन याचितस्तत् सर्वथा विनाश एवोपस्थितो ममायम्, कुतो मे बन्धमोक्षः । ततस्तयाभिहितम्'प्रतिपद्यख करिशतमहं ते दास्यामि ।' ततस्तैलिकेन तथेति प्रतिपन्ने राज्ञा चिन्तितम् - 'ममेयं " [ F. 70. B ] सर्वथा पर्यवशिता कुतोऽस्य करिशतम्' इति विचिन्त्याभिहितम् - ' कियता कालेन करिशतं प्रदास्यसि ? ' ततस्तया शिक्षितेन तैलिकेन मासषङ्कं या "चितः । राज्ञा तथेति प्रतिपन्नम् । ततस्तैलिकेन साऽभिहिता - ' किमिति भवत्या -
४ चक्र । ५ प्रतिपद्यत ।
१ महानैरधि । २ मातृ । ३ पहस्तिनसमीप ।
शृङ्गा. ६
Jain Education International
For Private & Personal Use Only
४१
www.jainelibrary.org