SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ४० शृङ्गारमञ्जरीकथा परागत इति मन्यमानानां तेषां महाक्षोभः समभवत् । अहं पुनस्तैस्तत्रैव क्षिप्ता तान् पलायमानानत्याकुलान् व्यलोकम् । ततो वाह्यालीप्रदेशे पतितमात्मानमद्राक्षम् । इत्थमयमद्यैव रात्रौ वृत्तान्तः संवृत्तः' इत्युक्ते तया तां नृपतिरवोचत् तत् (3) 'किं देवदत्ते ! सत्यमेतत् ?' इत्यभि [ F. 68. A] हितया देवदत्तया पुनरप्यवादि - ' यद्यसत्यं तदाज्ञा मे देवकीया ।' पुनरपि तां नृपतिरवोचत् - ' किं सत्यमे[?" ' यद्यसत्यं तदा देवकीया' ज्ञया शप्ताऽस्मि । यदैव देवस्य मया नाम गृहीतं तदैव तेषां पलायमानानां यः संभ्रमोऽभूत् कथं वचसा " प्रतिपादयितुं शक्यते ? "परागतो विक्रमादित्यः, परागतो विक्रमादित्य" इति तेषां वाच एव मया श्रुताः, विमानं तु सम्भ्र मात् प्रपलाय्य व गतमिति नाज्ञायि' ।' अथ पुनरपि विस्मया नृपतिस्तामवोचत्'किं देवदत्ते ! सत्यमेतत् ?" देवदत्ता तत्कालोत्पन्नसम्भ्रमविस्मयेवाब्रवीत् - 'देव' सत्यमेतत्, "देवस्य पुरतः किमसत्यं विज्ञाप्यते ?' ततः साहसाङ्कनृपतिना परितुष्टेनाभ्यधायि'रे रे महामात्राः ! पट्टहस्तिनं परित्यज्य यो ऽयं मम द्वितीयो " द्विरदराजः स देवदत्तायाः समर्प्यताम्, काश्चनकोटीचं तस्रो दीयताम्, क्षिप्रमेव महार्हाण्याभरणानि वासांसि च वितीर्यताम् ।' ततः सविनयं [F. 68. B] देवदत्तयेदमभ्यधायि - ' देव ! विज्ञापयामि मञ्चकस्य बहिरयमेकः । मञ्चकँस्थे पुनर्द्वितयमपि गृह्णामि । प्रागेवं देवेन पृष्टं यत् 'कथं भवदीया जाँतिर्गृह्णाति ?' 'अस्मदीया जीतिगृह्णाति' इति सस्मितमभिधाय व्यरंसीत् । विक्रमाकप्येतदाकर्ण्य समुपजाताधिकप्रसादोऽभ्यधात्- 'साधु देवदत्ते ! साध्विति । मनोहरया भञ्ज्या वयं प्रतिबोधिताः । परां प्रतिष्ठामारोपितश्च स्वजात्याचारः ' इत्यभिधाय द्विगुणतरेण पारितोषिकेण तामयोजयत् । " (6) तत् पुत्र ! यो हि यदाशयस्तत् तेनानुप्रविश्य विश्रावयतां निश्चितैवार्थसिद्धिः । स हि महानुभावः प्रभावस्थापनया तन्नास्ति यन्न वितरतीति । 1) www इति महाराजाधिराजपरमेश्वरश्री भोजदेवविरचितायां शृङ्गारमञ्जरीकथायां देवदत्ताकथानिका पञ्चमी । [ षष्ठी लावण्यसुन्दरीकथानिका ] अन्यच्च पुत्रि ! म [ F. 69. A ]हाँस त्वं महासाहसिकं सम्यगुपलभ्य आत्मत्यागेनाप्यर्थं साधयतां न दुरापाः स्वार्थसिद्धय इति यत् पूर्वमुक्तं तदपि ते कथयामि - १ याज्ञा या । २ न ज्ञायि । ७ जाति गृ । ६ मंएकस्थे । Jain Education International । ३ बिया ८ जाति गृ । ९ विचरतीति । १४ योय । For Private & Personal Use Only ५. कोटिश्वत । १० महसत्वं । www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy