________________
श्रीभोजदेवविरचिता
२७
साम्प्रतम्' इत्यभिधाय तूष्णीमभूत् । ततो मालतिकाऽपि तदाकर्ष्णेदमवोचत् - 'मामपि तदवलोकनात् प्रभृति तथा कथञ्चिन्म" न्मथः पीडयति यथा कथयितुमपि न शक्यते । किन्तु वसुदत्तगृह वार्ताङ्गीकरणपारवश्येन किमपि कर्तुं न बुध्यते । यतोऽयमीदृश एवास्मदीये समयः । समयोल्लङ्घनं हि क्रियमाणं त्रपाकरमनुचितं च भवति । अतः किमहं करोमि । कतिपयैः पुनरहोभिरतिक्रान्तैरेकमपि व्यतिकर ""मुत्पाद्य तथा प्रयतिष्ये' यथा तेन सह सङ्गमो भवति । नायमर्थस्तथाभीष्टस्तस्य यथा मम, अवसितप्रायश्च तदवधिर्वर्तते' इत्यभिधाय प्रियंवदकं व्यसृजत् । प्रियं वदकस्तु गत्वा तदनुरागपुरःसरां प्राप्याशां विक्रमसिंहस्याचचक्षे | [F. 46. B]
(5)
[ अत्रादर्शे ४७ अङ्काङ्कितं पत्रं विनष्टम् ]
wwwww.
(1)
... कहृदयानि । कुटजोsपि रागसागरमवर्धयं [स्] तरलतरत डिल्लताप्रसर जिह्वस्य बलाकावलिविकटदशनपद्धतेर्द लिताञ्जनपुञ्जमेचकस्य प्रबल " झञ्झानिलसमुच्छलद्वहलधूलीधूसर शरीरस्य जलद समय रजनिचरस्याद्भुतं रटितमाकर्ण्य स्फुटितहृदयानामिव पथिकानां विगलितैरसृग्बिन्दुभिरिवेन्द्रगोपकै रुपाचीयत' निखिलमप्यवनितलम् । सजलजलधरावलोकनप्रहर्षादुत्कण्टकितमिव कदम्बकुसुमैः पथिक हृदयोद्य न्मदनदहनसम्पकत् समुत्थितज्वालमिव स्फुटितकन्दलसमूहैः, जलधरप्रमुक्तसलिला सारलब्धाभिषेकतया सच्छत्रमिव शिलीन्त्रैः आग्रहगृहीतमपि मानाडम्बरमुत्सृज्य प्रियतमेषु प्रणता मानिनीरवलोक्य जातहास्यमिव स्फटिककुटजैः, प्रबलजलधरपट - [F. 48. A] हध्वनितश्रवणप्रमोदात् प्रवृत्तनृत्तमिव प्रचलाकिताण्डवैः, समुन्नतपयोधरां दिवमवलोक्य प्रवृद्धरागमिव पल्लवितवनराजिभिः, विरहवेदनाकुलितपथिकप्रणयिनीकरुणया साश्रुप्रवाहमिव स्रवद्भिर्निर्झरैः सेन्द्रकार्मुकमलिकुलश्यामलमनवरतोन्मुक्तसलि" लासार मुन्नदजलधरपटलमवलोक्योत्कलिकाकलितामिव व्याकुलितकल्लोलिनीसहस्रैरखिलमपि क्षितिवलयमभूत् ।
ततः स एकतो मदनेनान्यतोऽनुरागेणापरतः पयोदसमयेनान्यतस्तद्विभ्रमस्मर'मुहुर्मुहुः कदर्थ्यमानः कष्टां दशामनुर्भवन् " उत्कण्डुलः कथं कथमपि प्रावृषमनैषीत् । सा तु बहिः स्थितमध्येनमसजन्त्य प्यात्मीयवेशदर्शनादिभिस्तु वरयित्वरञ्जनयोग्यमाकल "[ F. 48. B. ]........ यितुमिच्छन्ती याचितान... सुर्वसुदत्तमप्रतिपद्यमानमप्यमोचयद् । अथ सा खदूतीं मधुकरिकाभिधानां विक्रमसि" नेदमवादीत् - 'राजपुत्र ! म [ या ] स्वा विहितं खामि. ..चितं यं वणिक्पुत्रो वसुदत्तस्तत्क्रियता मागमनेन". तथैव प्रतिपद्य तयैव सह तद्भवनं जगाम - तगौरवः कृतशयनीयोपचारस्तत्रैव मालतिका - निशामनैषीद् । एवं यथैकां तथा बह्वीरपि रजन्यः
स तु
(3)
१ प्रतयिष्ये । ६ भवमनुत्कण्डुलः ।
Jain Education International
........
चयित्वा
२ कैरपचीयत । ३ हृदयोदात् । ४ प्रवृत्तवृत्तमिव । ५ स्मरणेनु । + ४९ तमस्य पत्रस्य कियदंशस्य त्रुटितत्वादिमान्येव वाक्यानि पठितुं शक्यानि ।
For Private & Personal Use Only
www.jainelibrary.org