________________
THE RISTASAMUCCAYA
लक्षं (sic) लक्षण (sic) लक्षणेन पयसा भानोः प्रभामण्डलम् क्षीणं दक्षिणपश्चिमोत्तरपरः षद्वित्रिमासैककम् । मध्ये छिद्रगतं भवेद्दशदिनं धूम्राकुले तद्दिनम्
सर्वज्ञैः परिभाषितं स्फुटतरं आयुःप्रमाणं ध्रुवम् ॥ ५६ ॥ भरणी च मघा पूर्वा कृत्तिका हस्त (sic) विद्यते । शतभिषार्द्रा च विज्ञेया एते नक्षत्र (sic) मृत्युदाः ॥ ५७ ॥
(KJ = कालज्ञानाख्यं शंभुनाथकृतमप्रकटपुस्तकम् | Baroda Oriental Institute, MSS Library, Acc. No. 9726. Subject वैद्यक. The MS is very corrupt).
XVI From DS: -
$109
अथ स्वप्नविचारः ॥ स्वप्नो द्विविधः । इष्टफलोऽनिष्टफलश्चेति । तत्र सामान्यत इष्टफलो यथाः- नदी समुद्रतरणमाकाशगमनं तथा । ग्रहनक्षत्रमार्तंडचंद्रमंडलदर्शनम् ॥ हर्म्यस्यारोहणं चैव प्रासाद शिरसोऽपि वा । स्वप्ने च मदिरापानं वसामांसस्य भक्षणम् ॥ कृमिविष्ठानुलेपश्च रुधिरेणाभिषेचनम् । भोजनं दधिभक्तस्य श्वेतवस्त्रानुलेपनम् ॥ रत्नान्याभरणादीनि स्वप्ने दृष्ट्वा प्रसिद्ध्यति । देवताविप्रपृथ्वी शान्प्रशस्ता- 15 भरणांगनाः ॥ वृषेभपर्वतक्षी रिफलिवृक्षाधिरोहणम् । दर्पणामिषमाल्याप्तिं शुक्लपुष्पांबराश्रितान् । द्रष्टुः स्वप्नेऽर्थ लाभः स्याद्व्याधिमोक्षश्च जायते ॥
अथानिष्टफलः ॥ दुष्टं किंशुकवल्मीकपारिभद्राधिरोहणम् । तैलकार्पासपिण्याकलोहप्राप्तिर्विपत्तये ॥ विवाहकरणं स्वप्ने रक्तस्रग्वस्त्रधारणम् । स्रोतसाहरणं नेष्टं पक्कमांसस्य भोजनम् ॥ आदित्यस्याथ चंद्रस्य निष्प्रभस्यावलोकनम् । नक्षत्रादेश्च 20 पातश्च स्वमे मरणशोककृत् ॥ अशोककरवीरपलाशानां पुष्पितानां स्वप्ने दर्शने शोकः नौकारोहणे प्रवासः रक्तवस्त्रगंधधारिण्याः स्त्रिया आलिंगने मृत्युः घृततैलादिनाऽभ्यंगे व्याधिः केशदंतपाते धननाशः पुत्रशोको वा खरोष्ट्रमहिषैर्याने तद्युक्तरथारोहणे वा मृत्युः कर्णनासाकरादिच्छेदे पंकमजने तैलाभ्यंगे विषभक्षणे प्रेतालिंगने नलदमालिनो दिगंबरस्य याने कृष्णपुरुषदर्शने च मृत्युः ॥
अथ जागृतावनिष्टानि ॥ अरुंधतीं ध्रुवं चैव नभोमंदाकिनीं तथा । खनासाग्रं च चंद्रां मायुहिनो न पश्यति ॥ पांसुपं कादिषु न्यस्तं चरणं खंडितं यदि । स्नानांबु लिप्तगात्रस्य यस्यास्यं प्राक् प्रशुष्यति । गात्रेष्वाद्वैषु सर्वेषु सूर्यादिद्वयदर्शनम् ॥ स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम् । पिहिते कर्णयुगले यस्य घोषानुपश्रुतिः ॥ अदर्शनं स्वशिरसः प्रतिबिंबे जलादिषु । छिद्रप्रतीतिश्छायायां स चिरं नैव जीवति ॥
5
Jain Education International
For Private & Personal Use Only
यस्तु पश्यति वै स्वप्ने राजानं कुंजरं हयम् । सुवर्ण वृषभं गवां कुटुंबं तस्य वर्धते ॥ वृषं वाऽऽरुह्य तत्रस्थस्य जागरे धनाप्तिः श्वतसर्पेण दक्षिणभुजदंशे दशदिने सहस्रधनलाभः जलस्थस्य वृश्चिकोरगमासे जयपुत्रधनानि प्रासादशैलारोहणे समुद्रतरणे राज्यं तडागमध्ये पद्मपत्रेषु घृतपायसभोजने राज्यं बलाकाकुक्कुटीक्रौंची दर्शने भार्याप्राप्तिः निगडैर्बंधे बहुपाशबंधे वा पुत्रधनादीनि ॥ आसने शयने याने 26
15
25
www.jainelibrary.org