________________
THE RISTASAMUCCAYA
दध्यक्षतद्विजातीनां वृषभाणां नृपस्य च । रत्नानां पूर्णकुम्भानां सितस्य तुरगस्य च ॥ ७१ ॥ सुरध्वजपताकानां फलानां यावकस्य च । कन्या वर्धमानानां बद्धस्यैकपशोस्तथा ॥ ७२ ॥ पृथिव्या उद्धृतायाश्च वह्नेः प्रज्वलितस्य च । मोदकानां सुमनसां शुक्लानां चन्दनस्य च ॥ ७३ ॥ मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च । नृभिर्धेन्याः सवत्साया वडवायाः स्त्रियास्तथा ॥ ७४ ॥ जीवजीवक सिद्धार्थसारसप्रियवादिनाम् । हंसानां शतपत्राणां चाषाणां शिखिनां तथा ॥ ७५ ॥ मत्स्याजद्विजशङ्खानां प्रियङ्गूनां घृतस्य च । रुचकादर्श सिद्धार्थ रोचनानां च दर्शनम् ॥ ७६ ॥ गन्धः सुरभिर्वर्णश्च सुशुक्को मधुरो रसः । मृगपक्षिमनुष्याणां प्रशस्ताश्च गिरः शुभाः ॥ ७७ ॥ छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः । भेरीमृदङ्गशङ्खानां शब्दाः पुण्याहनिखनाः ॥ ७८ ॥ वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः । पथि वेश्मप्रवेशे तु विद्यादारोग्यलक्षणम् ॥ ७९ ॥
X
x
X
गृहप्रासादशैलानां नागानामृषभस्य च । हयानां पुरुषाणां च स्वप्ने समधिरोहणम् ॥ ८२ ॥ सोमार्काग्निद्विजातीनां गवां नृणां पयस्विनाम् । अर्णवानां प्रतरणं वृद्धिः संबाधनिःसृतिः ॥ ८३ ॥ स्वमे देवैः सपितृभिः प्रसन्नैश्चाभिभाषणम् । दर्शनं शुक्लवस्त्राणां हृदस्य विमलस्य च ॥ ८४ ॥ मांसमत्स्यविषामेध्यच्छत्रादर्शपरिग्रहः ।
स्वप्ने सुमनसां चैव शुक्लानां दर्शनं शुभम् ॥ ८५ ॥ अश्वगोरथयानं च यानं पूर्वोत्तरेण च । रोदनं पतितोत्थानं द्विषतां चावमर्दनम् ॥ ८६ ॥
XI From SS :--
सुहृदो यांश्च पश्यन्ति व्याधितो वा स्वयं तथा । स्नेहाभ्यक्तशरीरस्तु करभव्यालगर्दभैः ॥ ५५॥ वराहैर्महिषैर्वापि यो यायादक्षिणामुखः । रक्ताम्बरधरा कृष्णा हसन्ती मुक्तमूर्धजा ॥ ५६ ॥
x
x
X
पिबेन्मधु च तैलं च यो वा पङ्केऽवसीदति । पङ्कप्रदिग्धगात्रो वा प्रनृत्येत् प्रहसेत्तथा ॥ ५९ ॥
x
x
Jain Education International
( द्वादशोऽध्यायः ) ( इन्द्रियस्थानम् - pp. 353-375 )
X
For Private & Personal Use Only
103
5
10
15
20
25
30
35
www.jainelibrary.org