SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 102 APPENDIX रक्तमाली हसन्नुश्चर्दिग्वासा दक्षिणां दिशम् । दारुणामटवीं स्वप्ने कपियुक्तेन याति वा ॥ ३७॥ (पञ्चमोऽध्यायः) ज्योत्स्नायामातपे दीपे सलिलादर्शयोरपि । अङ्गेषु विकृता यस्यछाया प्रेतस्तथैव सः॥४॥ छिन्ना भिन्नाऽऽकुलाछाया हीना वाऽप्यधिकाऽपि वा। नष्टा तन्वी द्विधा छिन्ना विकृता विशिरा च या ॥५॥ एताश्चान्याश्च याः काश्चित् प्रतिच्छाया विगर्हिताः। सर्वा मुमूर्षतां ज्ञेया न चेल्लक्ष्य निमित्तजाः ॥६॥ संस्थानेन प्रमाणेन वर्णेन प्रभया तथा। छाया विवर्तते यस्य स्वस्थोऽपि प्रेत एव सः॥ ७ ॥ संस्थानमाकृतिईया सुषमा विषमा च सा । मध्यमल्पं महश्चोक्तं प्रमाणं त्रिविधं नृणाम् ॥ ८॥ प्रतिप्रमाणसंस्थाना जलादर्शातपादिषु । छाया या सा प्रतिच्छाया छाया वर्णप्रभाश्रया ॥९॥ प्रकूजति प्रश्वसिति शिथिलं चातिसार्यते । बलहीनः पिपासातः शुष्कास्यो न स जीवति ॥ २४ ॥ (सप्तमोऽध्यायः) ग्लायते नासिकावंशः पृथुत्वं यस्य गच्छति । अशूनः शूनसंकाशः प्रत्याख्येयः स जानता ॥१०॥ (अष्टमोऽध्यायः) शरीरकंपः संमोहो गतिर्वचनमेव च। मत्तस्येवोपलभ्यन्ते यस्य मासं न जीवति ॥ १० ॥ अहास्यहासी संमुह्यन् प्रलेढि दशनच्छदौ । शीतपादकरोच्छ्वासो यो नरो न स जीवति ॥ २०॥ (एकादशोऽध्यायः) चैत्यध्वजपताकानां पूर्णानां पतनानि च । हतानिष्टप्रवादाश्च दूषणं भस्मपांशुभिः ॥ २८ ॥ पथच्छेदो बिडालेन शुना सर्पण वा पुनः ।। मृगद्विजानां क्रूराणां गिरो दीप्तां दिशं प्रति ॥ २९ ॥ शयनासनयानानामुत्तानानां च दर्शनम् । इत्येतान्यप्रशस्तानि सर्वाण्याहुर्मनीषिणः ॥ ३०॥ 1 x x x ऊष्माणः प्रलयं यान्ति विश्लेषं यान्ति संधयः । गन्धा विकृतिमायान्ति भेदं वर्णस्वरौ तथा ॥५१॥ वैवयं भजते कायः कायच्छिद्रं विशुष्यति । धूमः संजायते मूर्ध्नि दारुणाख्यश्च चूर्णकः ॥५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002800
Book TitleRisht Samucchaya
Original Sutra AuthorDurgadevacharya
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages290
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy