________________
THE KISTASAMUCCAYA हानिश्चैव स्वगात्राणां विरेकवमनक्रिया। दक्षिणाशाभिगमनं व्याधिनाऽभिभवस्तथा ॥ ११ ॥
नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम् । स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः॥१७॥ पड्भिर्मासद्धितीये तु त्रिभिर्मासैस्तृतीयके । चतुर्थ मासमात्रेण पश्यतो नात्र संशयः ॥ १८ ॥ अरुणोदयवेलायां दशाहेन फलं भवेत् । एकस्यां यदि वा रात्रौ शुभं वा यदि वाऽशुभम् ॥ १९॥
(242nd Adhyāya) मत्स्य उवाच
इन्धनं च तथाऽङ्गारं गुडं तैलं तथाऽशुभम् । अभ्यक्तं मलिनं मुण्डं तथा नग्नं च मानवम् ॥ ३॥ निर्गतस्य तु द्वारादौ शिरसश्चाभिघातिता। छत्रध्वजानां वस्त्राणां पतनं च तथाऽशुभम् ॥ १२ ॥
गणिका च महाभाग दूर्वा चाऽऽद्रं च गोमयम् । रुक्मं रूप्यं तथा तानं सर्वरत्नानि चाप्यथ ॥१७॥ औषधानि च धर्मज्ञ यवाः सिद्धार्थकास्तथा। नृवाह्यमानं यानं च भद्रपीठं तथैव च ॥ १८॥ खड्गं छत्रं पताका च मृदश्चाऽऽयुधमेव च। राजलिङ्गानि सर्वाणि शिवं रुदितवार्जतम् ॥ १९ ॥ घृतं दधि पयश्चैव फलानि विविधानि च । स्वस्तिकं वर्धमानं च नन्द्यावत सकौस्तुभम् ॥ २० ॥
(243rd Adhyāya) VII From YS:
सोपक्रम निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२॥ 25
अरिष्टेभ्यो वेति । त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं चेति । तत्राऽऽध्यात्मिकं घोषं खदेहे पिहितको न शृणोति, ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति तथाऽऽधिभौतिकं यमपुरुषान् पश्यति, पितॄनतीतानकस्मात्पश्यति । तथाऽऽधिदैविकं स्वर्गमकस्मात्सिद्धान्वा पश्यति । विपरीतं वा सर्वमिति । अनेन पा जानात्यपरान्तमुपस्थितमिति ॥ २२ ॥ व्यासभाष्य.
30 प्रासङ्गिकमाह-अरिष्टेभ्यो वा । अरिवत्रासयन्तीत्यरिष्टानि त्रिविधानि मरणचिन्हानि । विपरीतं वा सर्व माहेन्द्रजालादिव्यतिरेकेण ग्रामनगरादि वर्गमभिमन्यते, मनुष्यलोकमेव देवलोकमिति ॥ २२॥ वाचस्पत्या.
अरिष्टेभ्यो वा। अरिष्टानि त्रिविधानि-आध्यात्मिकाधिभौतिकाधिदैविकभेदेन तत्राऽऽध्यात्मिकानि पिहितकर्मणः कोष्ठ्यस्यवायो?षं न शृणोतीत्येवमादीनि । 35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org