SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ २६ रघुविलास नाटकोद्धारः-पञ्चमोऽङ्कः । [ रावणेन त्रिजटाअनुचरीमालतीपार्थान्मायामैथिलीरूपं काराप्य चन्द्रराशेः ___ पश्यतस्तत्र सभायामागच्छत इदं वाक्यम् -] आरोहन्ति दुरारोहं मार्ग मुञ्चन्ति दूरतः। योषितः कामिनामर्थे शाखिनामिव वीरुधः ॥ ३१॥ पुना रावणः-( सोपहासम् ) चन्द्रराशे ! अर्पयिष्यामो जानकीम् । जानकीजानिर्देवो रामभद्रः किमपरमादिशति ? । चन्द्रराशिः -(सावष्टम्भम् ) जानकीजानिर्देवो रामभद्र इदमपरमादिशतिउदस्तः कैलासो यदथ, शतमन्योर्व्यपहृतः स्मयः सङ्ग्रामे यत्, तदिह ननु साक्षी कथय कः ?। प्रतीमो निःशेषं खरकुलनिवापप्रतिभुवां शराणां रे रक्षस्त्वमसि परिसोढा यदि युधि ॥ ३२ ॥ (चन्द्रराशिनिष्क्रान्तः ।) रावणः-( कर्ण दत्त्वा ससम्भ्रमम् ) लङ्कायाः किमुरे ! बहिः कलकलः ? प्रतीहार: प्राप्तो रिपुः रावणः-( सावज्ञम् ) किं शुनाशीरः कोऽप्यपरो? प्रतीहारः न, काननचर, रावणः- ( सलज्जम् ) हुं मा पुरो व्याहृथाः। (पुनः सविनयम् ) दोर्दण्डाः ! समुपस्थितं किमपि वः पर्व पापिच्छिलं, स्मतव्योऽस्मदनुग्रहेण विजयो नैन्द्रः क्षणं सम्प्रति ॥ ३३॥ (प्रविश्य सम्भ्रान्तः) शुकनाशः - देव! राम-कुम्भकर्णयोः शक्रजित्-सुग्रीवयोरपरेषां रक्षसां वनौकसां च महान् समरसंरम्भो वर्त्तते । रावणः-( सरोषम् ) किमद्यापि प्रहस्तः पुष्पकं प्रगुणयति ? । (नेपथ्ये) इदं प्रगुणमेव पुष्पकम् , आरोहतु देवः । रावणः-(प्रतीहारं प्रति ) दर्शय मार्गम् , येन समराय संरम्भामहे । (इति निष्क्रान्ताः सर्वे ।) ॥ इति पञ्चमोऽङ्कः॥ १ प्रतिपद्यामहे । २“निवापः पितृतर्पणम्" । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy