SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ रघुविलास-नाटकोद्धारः- पञ्चमोऽङ्कः। चन्द्रराशि:तस्य प्रियां दशरथस्य वधूं विदेह भर्तुः सुतामभिरिरंसु पिशाचतोकम् । श्रीचन्द्रहास! मुषितेन्द्रवधूविलास! ___ दृष्टं त्वया हतविरिञ्चिविचारसारम् ॥ २५ ॥ रावणः-(सक्रोधम् ) अरे ! पुनरेवं व्याहर। (चन्द्रराशिस्तदेव पठति ।) रावणःहित्वा वैनयिकं प्रयात रिपुतां, पुष्णीत रोधं पुरे, वाचालाः स्त, विधत्त दूतललितं, खेच्छाऽपराधेषु वः। सर्वस्यापि विकर्मणो दिविषदां कौपीनदीक्षागुरुः प्रायश्चित्तमसावसिर्घटयिता श्रीचन्द्रहासो रणे ॥ २६॥ [चन्द्रराशेः पश्यतः प्रविश्य वैनतेयः मायापवनञ्जयो रावणं प्रति सदैन्यम् -] यद् भग्नं विपिन, धनुर्धरकलादक्षो यदक्षो हतः, शिक्षा लम्भयतः क्षपाचरपतेर्यन्मूर्ध्नि दत्तं पदम् । यद्वेश्मानि परेःशतानि शिशुना क्षुण्णानि कापेयत. स्तत् क्षन्तव्यमशेषमेष पुरतस्ते देव ! बद्धोऽञ्जलिः ॥ २७॥ रावणः-( चन्द्रराशिं प्रति ) महावीरतनय ! किमादिशन्ति रामभद्रपादाः । चन्द्रराशि:-इदमादिशन्ति रामभद्रपादाःरक्षोवंशभुवामकृत्यकरणं वेषो न दोषस्ततः सत्यं ते वयमन्यदारहरणं नानौचिती ब्रूमहे । सीतां मुश्च शराः खरान्वयमुषो विश्रान्तिमातन्वता मस्तु स्वस्ति, निशाचरेषु वहतां मन्दोदरी मण्डनम् ॥ २८ ॥ रावणःअस्तु स्वस्ति, निशाचरेषु वहतां मन्दोदरी मण्डनम् , वैदेहीपरिरम्भनिर्भरभुजो धत्तां मुदं रावणः।। सन्तु म्लेच्छशिशोः सवानरचमूचक्रस्य रक्ताऽऽसवै लङ्काक्रीडेगृहेषु पङ्कजदृशामापानकेलिक्रमाः ॥ २९ ॥ चन्द्रराशिः - ( साक्षेपम् ) सन्तु म्लेच्छशिशोः सवानरचमूचक्रस्य पण्यस्त्रियां लङ्काक्रीडगृहेषु सीधुसलिलैरापानकेलिक्रमाः। पौलस्त्यस्य शिरोभिरस्तु दशभिः सौमित्रिपत्रिक्षतैः किष्किन्धापुरगोपुरेषु विगलद्रक्षोरणं तोरणम् ॥ ३० ॥ १ अक्षनामा पुत्रः। २ शतात् पराणि परःशतानि, शतादय इति निपात्यन्ते । ३ "कपेः क्रीडादिकं किञ्चित् कापेयमिति कथ्यते"। ४ मद्यैः । ५ उद्यानेषु । रघु० ना०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002798
Book TitleRaghuvilasa Natakoddharah
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages62
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy