SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १९०-१९६] पाठकश्रीजयसोमविरचित ३३ दीनानाथजनानामुपकारपरायणैकधिषणाभृत् । तेने च सत्रशालां वर्षे नेत्रवसुपञ्चदशे ॥ १९० व्याख्या-च पुनः, यः श्रीवरसिंहः, दीनाश्च दैन्यभाजः कृपणा इत्यर्थः, अनाथाश्च अखामिकाः, जनाश्च सामान्यलोकाः, तेषामुपकार उपकरणे परायणा प्रवणैकाऽद्वितीया या धिषणा बुद्धिस्तां बिभर्ति धारयति यः, स उपकारपरायणैकधिषणाभृत् सन् , नेत्र-वसु-पञ्चदशे (१५८२) वर्षे सत्रशालां तेने विस्तारयामास ॥ १९० गुरुभिः श्रीजिनकुशलैर्यात्रां श्रीदेवराजवरतीर्थे । सततं कर्तुमना अपि कर्तुमशक्तो यदा दृष्टः ॥ १९१ सम्मुखमागम्य तदा खमद्वारा खरूपमाख्याय । सारगडालास्थाने यात्रा सफलीकृता यस्य ॥ १९२ -युग्मम् । व्याख्या- श्रीजिनकुशलैर्गुरुभिः, श्रीदेवराजवरतीर्थे, यात्रा सततं नित्यम् , कर्तुमना अपि कर्तुकामोऽपि, श्रीवरसिंहो मन्त्री, यदा यस्मिन् काले, तद्देशीयराजविरोधेन कर्तुमशक्तोऽक्षमो दृष्टोऽवलोकितः, तदा तस्मिन् काले, सम्मुखं देवराजपुरादभिमुखमागम्य, स्वमद्वारा स्वप्नः सुप्तज्ञानं तद्द्वारा, स्वरूपमहमभिमुखमागतोऽस्मीति लक्षणमाख्याय कथयित्वा, सारगडालास्थाने, यस्य मन्त्रिणः श्रीवरसिंहस्य, यात्रा सफलीकृता, सफला विदघे ।। १९१ - १९२ अधुनाऽपि तकत् स्थानं तीर्थतया विश्रुतं समस्तीह । सेवकजनकृतबाञ्छाप्रपूरणात् सर्वगच्छेषु ॥ १९३ व्याख्या- इह भूमौ, तकदिति तत् , 'अव्ययसर्वनाम्नामकच् प्राक् टेः' इत्यकच्, स्थानमधुनाऽपि साम्प्रतमपि, तीर्थतया विश्रुतं विख्यातं समस्ति । कस्मात् ! सर्वगच्छेषु सेवकजनस्य भक्तलोकस्य कृता या वान्छा आशा तस्याः प्रपूरणात् सम्पादनात् ॥ १९३ वरसिंहमत्रिपुत्राः षडपि षडङ्गीविचारनिष्णाताः । अषडक्षीणालोचा लोचनविक्षेपभावज्ञाः ॥ १९४ व्याख्या-वरसिंहस्य मन्त्रिणः पुत्राः षडपि, षडङ्गीविचारे षडङ्गीविमर्श, निष्णाता निपुणाः । तत्र षडङ्गान्यमुनि 'शिक्षाकल्पव्याकरणच्छन्दोज्योतिर्निरुक्तयः' इति । बभूवुरिति गम्यते । किम्भूताः ? अषडक्षीण आलोचो रहस्यालोचनं येषां तेऽषडक्षीणालोचाः।'तन्मन्त्राधषडक्षीणं यत्ततीयाद्यगोचरः।' पुनः किम्भूताः! लोचनविक्षेपेण नेत्रविकारण, भावं पराभिप्रायम्, जानन्तीति लोचनविक्षेपभावज्ञाः ॥ १९४ तानेव नामत आह सन्मेघराज-नगराजनामकावमरसिंह-भोजाख्यो। हरराजो डुङ्गरसीनामाऽथ सुताऽभवद् वीरा ॥ १९५ व्याख्या-एते सन्मेघराजाद्याः षट् , अथ षट्पुत्र्यनन्तरं वीरानाम्नी सुता पुत्र्यभवत् ॥ १९५ तानेव पुत्रान् विशेषयन्नाह - सन्मन्नविधातारो दातारः सकलभावमातारः। त्रातारः शरणागतलोकानां सत्यवक्तारः ॥ १९६ व्याख्या- किम्भूतास्ते ? सन्मंत्रस्य प्रधानालोचस्य विधातारः कर्तारः, तथा दातार उदाराः, तथा सकलभावानां समस्ताभिप्रायाणां मातारः प्रमातारः । 'माङ्क मानशब्दयोः।' तथा शरणाय शरणार्थमागताः समेता ये लोकास्तेषां त्रातारो रक्षकाः, तथा सत्यवक्तारः सत्यवादिनः ॥ १९६ म. क. वं. प्र. ५ विधाताशः कावीरः, ताथा दाता सदाराः, तथा स्कळ भावानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002797
Book TitleMantri Karmachand Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy