________________
10
15
20
मन्त्रिकर्मचन्द्रवंशावलीप्रबन्ध |
[ १८४ - १८९
व्याख्या - कसमीरदेविजाताः कसमीरदेविपुत्राः, अमी कल्याणमल्लादयः, अपूर्वा नवाः पञ्च पाण्डवा इव युधि - ष्ठिरादय इव । अपूर्वत्वमेवैषामाह – यस्माद्धेतोरमी कल्याणमल्लाद्याः पश्चापि पाण्डवा व्यसनं विपत्तिस्तेन विमुक्ता रहिताः, तथा दुष्टं यद्योधनं युद्धकरणं तत्प्रियमिष्टं येषां ते दुर्योधनप्रियाः सन्ति विद्यन्ते । पूर्वपाण्डवास्त्वेवंविधा नाभूवन् । ते च व्यसनानि दुरोदरादीनि मृगयादयः सप्त तद्विमुक्ता न भवन्ति । तथा दुर्योधनः कौरवः स प्रियो येषामेवंविधो न स्युः । 'व्यसनं निष्फलोद्यमे, दैवानिष्टफले सक्तौ, स्त्रीपानमृगयादिषु, पापे विपत्तावशुभे ।' इत्यनेकार्थः ।
25
३२
'द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धि चौर्य परदारसेवा । एतानि सप्त व्यसनानि लोके, पापाधिके पुंसि सदा भवन्ति ॥ १'
दुर्योधन इति 'शासियुधिदृशिधृषिमृषिभ्यो युज्याच्यो वेत्येके, युघेर्ण्यन्ताद् दुर्योधनः, णेर्लोपे दुर्योध इति ॥ १८३ पत्यन्तरजा अन्ये सुता बभुः पूर्ण-मल्लसिंहाख्यौ । पुनरचल-मान-सुरजन - कर्म - श्रीरङ्गजीप्रमुखाः ॥ १८४ व्याख्या - अन्येऽपरे सुताः । पत्न्यन्तरजा अन्यभार्या जाता बभुः शुशुभिरे । तानेव नामतः आह - पूर्ण-मल्लसिंहाख्यौ, पुनर्भूयः, अचल-मान-सुरजन [कर्म ! ] श्रीरङ्गजीप्रभृतयः ॥ १८४
अथ श्रीवरसिंहमन्त्रिसन्ततिवक्तव्यतामाह -
वरसिंहो महामात्यो वीझादेवीसतीवरः ।
धर्मकर्मसु निष्णातः पुष्णाति स्म सुहृज्जनम् ॥ १८५
व्याख्या - तत्पदे वरसिंहो महामात्यो बभूवेत्यध्याहियते । वीझादेवीति नाम्नी या सती तस्या वरो भर्ता, यो धर्मकर्मसु निष्णातो निपुणः, सुहृज्जनं मित्रलोकं, पुष्णाति स्म अभीष्टदानैः पुपोष ॥ १८५
चम्पापुरे मदष्फरसाहेः शत्रुञ्जयादियात्रायाः ।
फुरमानमाप्तवान् यो षण्मासीं यावदुपजीव्य ॥ १८६
व्याख्या - यः श्रीवरसिंहो मन्त्री, चम्पापुरे मदप्फरसाहेः सकाशाच्छत्रुञ्जयाद्वियात्रायाः फुरमानं छप्पामाप्तवान् प्राप । किं कृत्वा ? षण्मासीं षट् मासान् यावदुपजीव्य तत्सेवामनुभूय ।
'आस्वादयत्यनुभवत्युपजीवति चोपयुङ्के च । उपभुङ्गे निर्विशतीत्युपयोगे योग्यतां याताः ॥ इति क्रियाकलापे ॥ १८६ राज्ञा दुर्गस्य दुर्गस्य तालिका करसात्कृता ।
यस्य सर्वोsपि लोकानां न्यायश्च विषयीकृतः ॥ १८७
व्याख्या - राज्ञा जेतृसिंहेन, यस्य श्रीवरसिंहस्य, दुर्गस्य दुर्गमस्य, दुर्गस्य कोट्टस्य, तालिका तालकोद्घाटनयत्रं, करसाद्धस्तायत्ता कृता । च पुनर्यस्य सर्वोऽपि लोकानां जानपदजनानां, न्यायो नीतिर्विषयीकृतो गोचरीकृतः ॥ १८७ तीर्थेषु पुण्यहेतोर्विमलार्बुदंरैवताद्रिरूपेषु ।
मुक्तीकृततीर्थपथं यात्रां यः सङ्घयुग विदधे ॥ १८८
व्याख्या - यः श्रीवरसिंहो मन्त्री, पुण्यहेतोः पुण्यनिमित्तं, विमलार्बुदरैवताद्रिरूपेषु शत्रुञ्जयार्बुदोजयन्त30 गिरिरूपेषु तीर्थेषु पुण्यक्षेत्रेषु, मुक्तीकृतः करमोक्षणान्मुत्कलीकृतस्तीर्थपथः श्रीतीर्थराजारोहः, यत्र यात्राविधाने तन्मुक्तीकृततीर्थपथमेवं यथा स्यात्तथा, सङ्घ युनक्तीति सङ्घयुक् सङ्घसहितो यात्रां विदधे चकार ॥ १८८
मार्गे चकार चतुरो लम्भनिकां लाभकारणं मन्त्री । सम्मानितो मदष्फरनाम्ना श्रीसाहिना बहुशः ॥ १८९
व्याख्या - चतुरः कुशलो मन्त्री वरसिंहः, मार्गे तीर्थयात्रापथे, लम्भनिकां 'लाहणीति' रूढां चकार चक्रे । किम्भूतां ? 25 लाभस्य पुण्यप्राप्तेः कारणं हेतुः । यो मन्त्री मदप्फरनाम्ना श्रीसाहिना, बहुशो बहुवारान्, सम्मानितः पञ्चाङ्गप्रासादादिदानेन सत्कृतः । बहुश इति ' संख्यैकवचनाच्च वीप्सायाम्' इति शस् ॥ १८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org