________________
३४
मधिकर्मचन्द्रवंशावलीप्रबन्ध ।
[ १९७-२०७ पद्मसिंहो वैरिसिंहो मेघराजसुतावुभौ ।
श्रीचन्द्रः पद्मसीसूनुर्वैरिसिंहसुताविमौ ॥ १९७ व्याख्या-पद्मसिंहो वैरिसिंह इमावुभौ द्वौ मेघराजसुतौ मेघराजपुत्रावास्तामध्याहियते । तथा पमसीसूनुः पासीपुत्रः श्रीचन्द्रः कुशाग्रीयमतिः, तथा वैरिसिंहसुताविमौ वक्ष्यमाणौ ॥ १९७ तावेवाह
सदारङ्गोऽथ कर्पूरो जोधाख्यो हरिराजसूः।
सुतो भैरवदासोऽस्य रामो भोजस्य नन्दनः ॥ १९८ व्याख्या-सदारङ्गः, अथानन्तरं कर्पूरस्तथा हरिराजसूर्हरिराजपुत्रो जोधाख्यो जोधाभिधः, अस्य जोधस्य पुत्रो भैरवदासः, तथा भोजस्य भोजराजमन्त्रिणो, नन्दनः पुत्रो रामः ॥ १९८
सुता अमरसिंहस्य सीपा-सीहाभिधौ तथा । सीमाः सिंहराजोऽथ सिवराजोऽपि पञ्चमः ॥ १९९ मनिसीपाङ्गजा एते अर्जुनः खीमसीस्तथा । पुनः सुरजनाभिख्यस्तुर्यो झाझणसीर्मतः ॥ २०० आद्यो जेसिंहदेसूनुर्जीवराजो द्वितीयकः। जगहत्थस्तृतीयोऽस्ति मनिसीहासुता अमी ॥ २०१ राघवदे-हमीराद्याः सीमामात्यसुतस्ततः। सद्राजमल्ल-रासाद्याः सिंहराजसुतात्रयः ॥ २०२ घडसी-जगमालाद्याः सिवराजसुताः पुनः । मनिडूङ्गरसीपुत्रो मन्त्री नरबदाभिधः॥२०३ सुता नरबदस्यासन्नचलः प्रथमस्ततः।
भारमल्लो लाखणसीमुख्याः षडपि धार्मिकाः॥२०४ स्पष्टार्थाः । नवरं षडपि धार्मिका:-धर्म चरन्ति धार्मिकाः । 'धर्म चरति' अस्माञ्चरत्यर्थे ठगिति ठक् ॥१९९-२०४
अथ प्रतापशोभाभृजेतसिंहेशसम्प्रतः।
नगराजोऽभवन्मन्त्री मन्त्रकर्मसु कर्मठः ॥२०५ व्याख्या-अथ वरसिंहमन्यनन्तरं नगराजो मझ्यभवत् । किम्भूतः? प्रतापस्तेजः शोभा लक्ष्मीस्ते विभर्ति धारयतीति प्रतापशोभाभृत् । तथा जेतसिंहेशस्य जेतृसिंहप्रभोः सम्मतोऽभिमतो जेतृसिंहेशसम्मतः । तथा मन्त्रकर्मखालोचकार्येषु कर्मठः कर्मशूरोऽलब्धश्रम इत्यर्थः ॥ २०५
शत्रुञ्जयोजयन्तादितीर्थेषु सुकृतार्थिना।
कृता यात्रा कृतज्ञेन येन लम्भनिकायुता ॥ २०६ व्याख्या-येन श्रीनगराजेन, सुकृतं पुण्यमर्थयते याचत इत्येवंशीलः सुकृतार्थी, तेन सुकृतार्थिना, पुण्यार्थमित्यर्थः । " शत्रुञ्जयोजयन्तादितीर्थेषु लम्भनिकायुता लम्भनिकायुक्ता यात्रा कृता। किम्भूतेन ? कृतमुपकारं जानातीति कृतज्ञस्तेन ॥२०६
मालदेवेऽन्यदा सेनासनाथे जङ्गलावनिम् ।
जिघृक्षति महामात्यं जेतृसिंहोऽवदत्तराम् ॥ २०७ व्याख्या- अन्यदाऽन्यस्मिन् काले, सेनासनाथे सैन्यसहिते मालदेवे नृपे, जङ्गलावनिं जङ्गलदेशभूमिम् , जिघृक्षति ग्रहीतुमिच्छति सति, जेवृसिंहो नृपो महामात्यं महाधीसखं श्रीनगराजमवदत्तरामतिशयेनाब्रवीत् ॥ २०७
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org