SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [५१-५७ कल्पलतेवोदारा तारादेवीति नामिका सारा । तस्य विशुद्धाचारा जायाजायत सदाकारा ॥५१ व्याख्या-तस्य श्रीतेजपालस्य तारादेवीति नामिका जाया कलत्रमजायत जाता । किम्भूता! कल्पलतेव कल्पवल्लीवोदारा उदात्ता मनोभिलषितार्थदात्रीत्यर्थः। तथा सारा श्रेष्ठा, तथा विशुद्धो निर्दोष आचारः क्रियाव्यापारो यस्याः सा विशुद्धाचारा । तथा सन् शोभन आकार आकृतिर्यस्याः सा सदाकारा ॥ ५१ । गौर्जरदेशाधिपतेरुपदां दत्त्वाऽन्यदा स तुरगादिम् । प्राप्ताधिकप्रसादो देशं जग्राह मूल्येन ॥५२ व्याख्या- अन्यदाऽन्यस्मिन् काले गौर्जरदेशाधिपतेर्गौर्जराधीशस्य, स तुरगादि तुरङ्गगजवर्णादिसहितामुपदामुपायनं दत्त्वा, प्राप्तो लब्धोऽधिकः प्रसादोऽनुग्रहो यस्मात् स प्राप्ताधिकप्रसादः, मूल्येन वेतनेन, लोकरूढ्या 'मुकातेन' 10 देशं गूर्जरदेशं जग्राह गृहीतवान् ॥ ५२ अणहिलपत्तनशास्ता समभूच्छीतेजपालसङ्घपतिः। षट्त्रिंशद्राजकुलीज्ञातीनां न्यायकरणेन ॥५३ व्याख्या-श्रीतेजपालसङ्घपतिः षट्त्रिंशद्राजकुलीनां ज्ञातीनां च लोकप्रसिद्धानां न्यायकरणेन सत्यासत्यादिनीतिकरणेन अणहिलपत्तनस्य शास्ता पालकः समभूज्जातः । तत्र षट्त्रिंशदाजकुल्य इमाः- इक्ष्वाकुवंश १ सूर्यवंश २ सोम ३ 15 यादव ४ परमार ५ चाहमान ६ चौलुक्य ७ छिन्दक ८ सिलार ९ सैन्धव १० चापोत्कट ११ प्रतीहार १२ चन्दुक १३ राट १४ कूर्पट १५ शक १६ करक १७ पील १८ करङ्क १९ वाउल २० चन्देल २१ गुहिल्लपुत्र २२ पौलिक २३ मोरिक २४ मङ्कयाणकर २५ धान्यपालक २६ राजपालक २७ अमङ्ग २८ निकुम्भ २९ दधिलक्ष ३० कुरुदलिक ३१ हूण ३२ हरियड ३३ नट ३४ माष ३५ खोखर ३६ रूपा इति । ज्ञातयः सार्दा द्वादश प्रसिद्धा एव ॥ ५३ तस्याभूत् सुतरत्नं वील्हानाम्ना नरोत्तमं सगुणम् । तारादेवीसदुदरसरोरुहे राजहंससमम् ॥ ५४ व्याख्या- तस्य श्रीतेजपालस्य वील्हानाम्ना सुतरनं पुत्ररत्नमभूत् । उत्कृष्टसूनुर्बभूवेत्यर्थः । किम्भूतं ? नरेश्वौदार्यधैर्यादिभिर्गुणैरुत्तमं मुख्यम् । पुनः किम्भूतं ? गुणाः सत्त्वादयस्तैः सहितं सगुणम् । पुनः किम्भूतं ? तारादेव्या यत्सदुदरं शोभनकुक्षिस्तदेव सरोरुहं पद्मं तत्र राजहंससमं सितच्छदोपमम् ॥ ५४ गुरुवचनादथ शत्रुञ्जय-रैवततीर्थयोwधाद्यात्राम् । श्रीसद्धेन सनाथो मुक्तं कृत्वा स तीर्थेशम् ॥ ५६ व्याख्या-अथानन्तरं गुरुवचनाद्गुरूपदेशतः, स तेजपाल: सङ्घपतिः, श्रीसङ्घन साधु-श्राद्धादिसमुदायेन, सनाथः सहितस्तीर्थेशं मुक्तं कृत्वा । लोकरूड्या 'मुगतउ' इति विधाय । शत्रुञ्जय-रैवततीर्थयोः पुण्डरीक-उज्जयन्ताख्यपुण्यक्षेत्रयोः, यात्रां जिनार्चनोत्सवं व्यधाच्चकार । 'तीर्थ शास्त्रे गुरौ यज्ञे, पुण्यक्षेत्रावतारयोः।' इत्यादि ॥ ५५ प्रतिसाधर्मिकगेहं तद्देशे हेममुद्रया युक्तम् । सस्थालमदान्मोदकमेकैकं पञ्चसेरमितम् ॥ ५६ व्याख्या-स श्रीतेजपालः सङ्घाधिपतिः, तद्देशे गूर्जर-सौराष्ट्रदेशे प्रतिसाधर्मिकगेहं सकलसाधर्मिकगृहेषु, हेममुद्रया सौवर्णनाणकेन युक्तमेकैकं पञ्चसेरमितं पञ्चसेरप्रमाणं, सस्थालं भाजनविशेषसहितं मोदकं लड्डुकम् , अदाद् ददौ । 'समिताखण्डाज्यकृतो, मोदको लड्डुकश्च सः।' इति शेषः ॥ ५६ श्रीजिनकुशलगुरूणां सूरिपदस्थापनां व्यधात् समहम् । राजेन्द्रचन्द्रसूरेः कराम्बुजात् पत्तने नगरे ॥ ५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002797
Book TitleMantri Karmachand Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy