________________
५८-६३]
. पाठकश्रीजयसोमविरचित व्याख्या-य इति पदमध्याहियते । यः श्रीतेजपालः समहं सोद्धर्ष सोत्सवमिति यावत् , श्रीजिनकुशलगुरूणां सूरिपदस्थापनामाचार्यपदवीप्रतिष्ठां, पत्तने नगरे, राजेन्द्रचन्द्रसूरेः कराम्बुजात्पाणिपद्मात् , व्यधादकार्षीत् । श्रीजिनकुशलसूरीणामाचार्यपदं नन्दीमहपूर्वकं दापयति स्मेति भावः ॥ ५७ .
श्रीसम्मेतशिलोच्चययात्रां कर्तुं ततः प्रवृत्तेऽस्मिन् ।
मार्ग म्लेच्छा रुरुधुव्यं गृहयालवो बालाः॥५८ व्याख्या-ततः श्रीशत्रुञ्जयादियात्राकरणादूर्ध्वमस्मिन् श्रीतेजपाले, श्रीसम्मेतशिलोच्चयस्य श्रीसम्मेताद्रेर्यात्रां का विधातुं प्रवृत्ते सति, द्रव्यं द्रविणं गृहयालवो ग्रहीतारो बाला विवेकविकला म्लेच्छाः शबराः मार्ग पन्थानं रुरुधुः । मार्ग रुवा तस्थुरित्यर्थः ॥ ५८
सङ्घपतिर्निजसुभटान् सज्जीकृत्याभवद् रणे सजः।
म्लेच्छानामपि सेना नंष्वाज्गात् कान्दिशीकाऽथ ॥ ५९ व्याख्या-अथ म्लेच्छरोधानन्तरं सङ्घपतिः श्रीतेजपालो, निजसुभटानात्मीययोधान्, सज्जीकृत्य सन्नद्धान् विधाय, रणे तैः सह सङ्घनमे सज्जः प्रगुणोऽभवत् । रणे प्रवृत्ते सति म्लेच्छानामपि सेना सैन्यं, कान्दिशीका का दिशं व्रजामीत्याकुला सती, नंष्ट्वा पलाय्य, अगाजगाम । म्लेच्छसैन्यं ननाशेयर्थः । 'सजौ सन्नद्धसम्भृतौ ।' सम्भृतः परिपूर्णः प्रगुण इति यावदिति तद्वृत्तौ ॥ ५९
लब्धजयोऽथ दयामयहृदयः श्रीजैनधर्ममाहात्म्यात्।
विंशतिजिनशिवभूमौ कृतयात्रोऽभून्मुदां पात्रम् ॥ ६० व्याख्या-अथोपस्थितम्लेच्छजयानन्तरं, लब्धजयः प्राप्तविजयो, दयामयहृदयः सदयचित्तः श्रीतेजपालः, श्रीजैनधर्ममाहात्म्याच्छीआईतधर्मप्रभावाद्, विंशतिजिनानां श्रीऋषभवासुपूज्यारिष्टनेमिवीरव्यतिरिक्तविंशतितीर्थकृतां, शिवभूमौ मोक्षप्राप्तिस्थाने, कृतयात्रो विहितोत्सवो, मुदा हर्षाणां, पात्रं भाजनम् , अभूद्बभूव ॥ ६०
एवं विधाय यात्रां दीनारयुताच्छमोदकं विपुलम् ।
सस्थालं प्रतिभवनं श्राद्धानां दत्तवान्मार्गे ॥ ६१ व्याख्या-एवं पूर्वोक्तप्रकारेण, यात्रां विधाय कृत्वा, श्रीतेजपालो मार्गे पथि, श्राद्धानां श्रावकाणां, प्रतिभवनं प्रतिगृहं, विपुलं महत्सस्थालं भाजनविशेषयुतं, दीनारेण सौवर्णनाणकेन, युतः सहितः, अच्छोऽमलो यो मोदको लड्डुकस्तं, दत्तवान् ददौ ॥ ६१
कृतवांश्च सत्रशालां दीनानाथार्थिलोकसन्तुष्ट्यै ।
एवं श्रीजिनशासनसमुन्नतिं यो विधत्ते स्म ॥ ६२ व्याख्या-च पुनींना दैन्यभाजः कृपणा इत्यर्थः । अनाथा अखामिकाः, अर्थिलोका याचकलोकास्तेषां सन्तुष्टयै सन्तोषाय चेतःसमाधानाय, सत्रशालां दानशालां, कृतवांश्चके।
'सत्रमाच्छादने क्रती, सदा दाने वने दम्भे ।' इत्यनेकार्थः । एवममुना प्रकारेण यः श्रीतेजपालः श्रीजिनशासनस्य समुन्नतिमुदयं विधत्ते स्म चकार । यतः'जिणभवणं जिणबिंब भत्तो राया सुसावओ मंती । अइसेसा आयरिया पंचुज्जोया जिणमयम्मि ॥ ६२
कृत्वाऽनशनं विधिना श्रीमजिनसङ्घपूजनाभिरतः।
खगर्ग जगाम सङ्घाधिपतिः श्रीतेजपालाख्यः ॥ ६३ व्याख्या-श्रीतेजपालाख्यः श्रीतेजपालनामा सङ्घाधिपतिः, श्रीमजिनसङ्घपूजनाभिरतः श्रीमत्तीर्थकृत्साधुश्राद्धादिसमुदायार्चनासक्तः सन् , विधिनाऽऽगमोक्तानुष्ठानपूर्वकम् , अनशनमाहारसंन्यासं कृत्वा, खर्ग सुरालयं जगाम ॥ ६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org