SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ११ सम्यक्त्वालापकपाठो यस्ते ४५-५०] पाठकश्रीजयसोमविरचित श्रीकर्णसुता जननीयुता गुरूपान्तमागताः प्रातः। श्रुतहितगुरूपदेशाः प्रतिबोधं प्रापुरपरेयुः ॥ ४५ व्याख्या-अपरेधुः अपरस्मिन्नहनि, श्रीकर्णसुताः समधराद्याः, जननीयुताः रत्नादेवीसमेताः, गुरूपान्तं श्रीजिनेश्वराचार्यसमीपमागताः प्राप्ताः । श्रुतहितगुरूपदेशाः-श्रुतः श्रवणातिथीकृतो हितः पथ्यो गुरूपदेशो यैस्त एवंविधाः, प्रतिबोधं प्रापुः प्रतिबुद्धाः ॥ ४५ कृतसम्यक्त्वोचारा जिनगृहजिनबिम्बपूजनाधाराः। उद्धृतसुधर्मभाराः सञाता मोदसम्भाराः॥४६ श्रीशत्रुञ्जयरैवतगिरिशृङ्गे विहितभव्यजनरङ्गे। यात्रां गुरूपदेशात् क्रमेण चक्रुः सदाचाराः॥ ४७ युग्मम् ॥ व्याख्या-ते क्रमेण गुरूपदेशाच्छीजिनेश्वराचार्यव्याख्यानश्रवणाद् , विहितभव्यजनरङ्गे विहितः कृतो भव्यजनानां " जिनदर्शनोद्भूतहर्षोत्कर्षान्नर्तनाय रङ्गो नृत्तभूमिर्यस्मिन्नेवं विधे, श्रीशत्रुञ्जय-रैवतगिरिशृङ्गे श्रीपुण्डरीकोजयन्ताद्रिशिखरे, यात्रां श्रीजिनेश्वरार्चनोत्सवं चक्रुरकाघुः । 'यात्रोत्सवे गतौ वृत्तौ' इत्यनेकार्थः । उत्सवे यथा- 'यात्रा हि चैत्रे त्रिदशेश्वराणां' इति तद्वत्तौ । अथ तद्विशेषणान्याह-किम्भूतास्ते ? कृतः श्रीमद्रुमुखादङ्गीकृतः सम्यक्त्वोच्चारः सम्यक्त्वालापकपाठो यै कृतसम्यक्त्वोच्चाराः । पुनः किम्भूताः ? जिनगृहे जिनबिम्बानामहत्प्रतिमानां यत्पूजनं कुसुमादिभिरभ्यर्चनं तस्याधारा आश्रयाः प्रत्यहं त्रिसन्ध्यं जिनपूजां विदधाना इत्यर्थः । पुनः किंविशिष्टाः ? सञ्जातः प्राप्त आमोदसम्भारः प्रमोदसमूहो येषां ते 15 सञ्जातामोदसम्भाराः। पुनः किम्भूताः? सदाचाराः शोभनश्राद्धधर्मानुष्ठानाः । 'रङ्गः स्यावृत्तयुद्धकोः, रागः' इत्यनेकार्थः॥४७ मार्गगृहीतसमुज्वलपूगफलस्थालदानतोऽनुगृहम् । । जानपदैराख्याताः फोफलियेत्याख्यया तेऽपि ॥ ४८ - व्याख्या-ते समधराधाश्चत्वारोऽपि, अनुगृहं गृहस्य गृहस्य पश्चात् प्रतिगृहमित्यर्थः । मार्गे श्रीतीर्थराजवर्त्मनि, गृहीतानि द्रव्यव्ययेन खीकृतानि, समुज्वलानि धवलानि यानि पूगफलानि क्रमुकतरुफलानि, तैर्भूतं यत्स्थालं भाजनविशेषस्तस्य 20 दानतो वितरणात्, जानषदैर्जनपदवासिभिलौकैः, 'फोफलिया' इत्याख्यया नाम्ना आख्याताः कथिताः। तत ऊवं गर्जरदेशप्रसिद्धफोफलदानात् 'फोफलिया' इति तान् सर्वेऽपि कथयन्ति स्मेति भावः । 'पूगः क्रमुकसङ्घयोः । 'अनु लक्षणवीप्सेत्थम्भूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ॥ इति ॥ ४८ सङ्घपतयोऽथ सर्वे सञ्जातास्तेषु समधरो भ्राता। जइतीभायोनुगतः सुखेन धर्मे दधाति स्म ॥ ४९ . व्याख्या-अथ श्रीशत्रुञ्जयादियात्राकरणानन्तरं सर्वे समधराद्याः सङ्घपतयः परिहितेन्द्रमालाः सञ्जाताः। तेषु चतुषु भ्रातृषु मध्ये समधरो भ्राता जइतीत्यभिधया या भार्या तयाऽनुगतः सहितः, सुखेन धर्म श्रीजिनोदितानुष्ठानं धाति स्म बभार ॥ ४९ अथ त्रीन् भ्रातृनुपेक्ष्य प्रकृतवंशोपयोगिश्रीसमधरस्य सुतपारम्पयं कथयन्नाह - तस्य सुतोऽभूद्धन्यो मान्यः श्रीतेजपाल इति नाना । नारिङ्गयाख्या पुत्री तो वृद्धि प्रापतुः पुण्यैः॥ ५० व्याख्या- तस्य समधरस्य सुतः पुत्रो धन्यः पुण्ययुतः । 'धन्यः पुण्ययुते' इत्यनेकार्थः । मान्यो माननीयः सत्कारार्ह इत्यर्थः । श्रीतेजपाल इति नाम्नाऽभूद् बभूव । तथा नारिजयाख्या नारिङ्गीत्यभिधाना पुत्र्यभूत् । तौ स च सा च तौ स्त्रीपुंसयोः सह वचने पुल्लिङ्गं भवति । 'सा च पटश्च तौ, स च शाटी च ताविल्यादिवत् । तेजपाल-नारियो पुण्यैः पूर्वकृतसुकृतैर्वृद्धि प्रापतुर्वर्द्धनं लेभाते ॥ ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002797
Book TitleMantri Karmachand Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy