________________
श्रीजयसिंहसूरिविरचितं धर्मोपदेशमालाप्रकरणम् ।
[सविवरणम् ।]
६०॥ नमः श्रीश्रुतदेवतायै ॥ प्रणिपत्य जिनं श्रुतदेवतां च धर्मोपदेशभालायाः।
वक्ष्यामि विवरणमिदं गुरूपदेशेन विस्पष्टम् ॥ अत्र कश्चिदाह - नारब्धव्यं विवरणमिदं प्रयोजनरहितत्वात् , कण्टकशाखा-मर्दनवत् । तथा निरभिधेयत्वात , काकदन्त-परीक्षावत् । तथाऽसम्बद्धत्वात् , दश दाडिमानि, पर्ट अपूपा इत्यादिवाक्यवत् । तदमीपां हेतूनां असिद्धत्वप्रदर्शनार्थं प्रेक्षावन्त(तां) प्रवृत्त्यर्थं च प्रयोजनादि पूर्व प्रदर्यत इति । उक्तं च
"प्रेक्षावन्त तां) प्रवृत्त्यर्थ फलादि तु( त्रि)तयं स्फुटम् ।
मङ्गलं चैव शास्त्रादौ वाच्यामिष्टार्थसिद्धये ॥" इत्यतः प्रयोजनम् , अभिधेयं, सम्बन्धो(न्ध) मङ्गलं च प्रदर्शयन् गाथाद्वयमाह प्रकरणकारः
सिज्झउ मज्झ वि सुयदेवि ! तुज्झ भ(स)रणाउ सुंदरा झत्ति । धम्मोवएसमाला विमल-गुणा जय-पडाय व्व ॥१ जिण-सिद्ध-सूरि-उज्झाय-साहु-सुयदेवि-संघ-नाणाणि । धम्मोवएसमालं थोऊण भणामि सुय-विहिणा ॥ २ | सिध्यतां ममापि श्रुतदेवि ! तव स्मरणात् सुन्दरा झटिति । धर्मोपदेशमाला विमलगुणा जगत्पताकेव ॥१ जिन-सिद्ध-सूरि-उपाध्याय-साधु-श्रुतदेवि-संघ-ज्ञानानि ।
धर्मोपदेशमालां स्तुत्वा भणामि श्रुतविधिना ॥ २] तत्र प्रयोजनं द्विविधं कर्तृ-श्रोत्रपेक्षया । पुनरेकै द्विविधं परापरभेदात् । तत्र परं कर्तुः शिवगति, [अ] परं तु सत्त्वानुग्रहः । श्रोतुरपि परं मोक्षावाप्तिरेव, अपरं तु प्रकरणार्थावगमः । अभिधेयं धर्मोपदेशाः । सम्बन्धस्तु वाच्य-वाचक-लक्षणः । स च प्रकरणान्तर्गत इति कृत्वा न पृथगुक्तः । तत्र वचनरूपापन्नं प्रकरणं वाचकम, वाच्यं तु प्रकरणार्थः । 25
१ क. यां।
२ ह. था। सं' ।
३ ज. र्शत। ४ ज. °दिच्छत। ५ ज. °च्य नु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org