SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 5 ४८ 10 15 20. 25 30 महोपाध्यायमेघविजयगणिकृतं हिमकणल सन्मुक्तायुक्ता इतो वरपद्मिनीः परिघृत नवज्योतिर्वस्त्राऽऽदिदृक्षुतयोद्यताः । हसितवदनाम्भोजाः सौराऽऽगमे सरसीतटे मिलितललिताssलीनां गानैः प्रपश्य नृपोज्वलाः ॥ ६९ ॥ उडुसुमनसः प्रस्तीर्णाया निःशेषनिशः कृते antara निर्माल्यं तद्वयपाक्रियतेऽधुना । पवनपुरुषैर्भूमीभागे तथैव महोत्सवे विजयिनि कृते पौरैः सौराऽऽगमस्य विसृत्वरे ॥ ५० ॥ नदति मधुरं बाह्याऽऽरामः खरैः प्रविकखरैनृपसवयसां लोकानां द्राग विबोधविलासिनाम् । तदनु तदनु प्रौढिं कर्त्तुं स्मरध्वजमण्डलं ध्वनति मुखरीकुर्वत् सर्वं दिशामपि मण्डलम् ॥ ७१ ॥ अमरसरिति प्रोत्फुलं यद् ग्रहोत्पलकाननं वियति तदलं सौरी दीप्तिः शुशोष सरोषणम् । द्विजपतिरुचेर्नाशादेवं क्षितावपि वीक्ष्यतां Jain Education International विषयवशतः सर्वान्नीनग्रहोत्पलकाननम् ॥ ७२ ॥ गगनसुभगाssरामे रात्रावुप्रसवावली विकसिततरा सौरी पूजां तयेव विधित्सुना । विनिवहे नेदानीं द्रागचीयत सर्वतः भवतु भवस्तत्साहाय्यं विधातुमनातुरः ॥ ७३ ॥ इति नरपतिः सुतस्तत्रार्थिकैः प्रतिबोधितो व्यधित सहसाऽऽदेशं देशे प्रवेश महामहे । कुरुत सकलां सज्जां सद्योऽनवद्यपताकिनी भिजिगमिषुः सुरेरेवं कृताभ्युदयक्रियः ॥ ७४ ॥ तृणमिव दिवमेवं भावयन् भावशुद्ध्या उदयनगरदेशाधीश्वरः स्वीयऋद्धया । सुरपतिरिव सूरेः सम्मुखीनश्चचालाचलमपि बलभाराचालयन्नुज्वलश्रीः ॥ ७५ ॥ इति श्री दिग्विजयनानि महाकाव्ये महोपाध्याय श्री मेघ विजयगणिविरचिते कथानायकस्य उत्तराशाविजयवर्णनो नाम पञ्चमः सर्गः ॥ ५ ॥ -- [ 69 ] 1 'मिलितललिताऽऽलीनाम्' मिलिताश्च ते ललिताश्चेति मिलितललितास्तासामाल्यः सख्यस्तासाम् । [70] 2 'उडुसुमनसः' नक्षत्र देवाः । 3 'विसृत्वरे' प्रसारिणि । [71] 4 'बाह्याssरामः' बाह्योद्यानम् । 5 'स्मरध्वज मण्डलम्' वादित्रसमूहम् 6 'मुखरीकुर्वत्' वाचालीकुर्वत् । [72]7 'अमरसरिति' स्वर्गज्ञायाम् । ग्रह एवोत्पलानि कमलानि तेषां काननं वनम् । [ पञ्चमः सर्गः For Private Personal Use Only S 'महोत्पलकाननम्' 9 'द्विजपतिरुने : ' चन्द्रकान्त्याः । [73] 10 'विबुधनिवहे' पण्डितसमूहे । [7]11 'अनवद्यपताकिनी' निर्दोषसैन्यम् । www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy