________________
पद्य ६९-८१ ]
दिग्विजय महाकाव्यम् ।
महाहिमाद्रिर्ननु रुक्मिनामा द्वीपे परौ द्वौ संहजाविर्वागी । दिशोरुदगदक्षिणयोर्दिदृक्षोरन्तर्जवन्याविव रत्नसानोः ॥ ७५ ॥ तदन्तराले हरिवर्ष - रम्यकक्षेत्रे पुनर्भोगभुवौ प्रतीते । कल्पद्रुमाssमोदमिषाद् यशोभिः स्वीयैर्युलोकश्रियमाश्रयन्त्यौ ॥ ७६ ॥ लघुर्हिमाद्रिः शिखरी द्वितीयोऽचलावम् तत्परतोऽतितुङ्गी ।
वार्द्ध तितीर्षु इव पाणिपादं विस्तार्य कार्यं कुरुतः प्रमायाः ॥ ७७ ॥ हेमन्त हैरण्यक नामधेयं क्षेत्रद्वयी सौख्यमयीव भोगैः ।
Jain Education International
यस्या नरैः प्राग्भवदानयोगाद् वश्याः क्रियन्ते त्रिदशा रसाssस्यैः ॥ ७८ ॥ तथोत्तरस्यां शिखरीन्द्रशैलादैरावतं वर्षमतर्वलोकम् ।
यन्नाम रागादिव किं समागात् स्वर्गस्थितिः सूरकलाधराद्यैः ॥ ७९ ॥ वर्षाणि सप्तापि विभज्य शैलैर्निवेशयामास यथाऽर्हवृत्त्या । यः सप्तलोकप्रभुतां स्वकीयां प्रख्यापयन् सर्वजने समृद्ध्या ॥ ८० ॥ जम्बूवृक्षसमाश्रयन् निजकुले पत्रावलम्बीव यो
द्वीपाम्भोनिधिवेष्टितो निधिरिव स्वर्णाद्रिसान्द्रच्छविः । चक्रीवोत्तमदैवतोत्तरकुरुक्षेत्रद्वयाऽऽभोगवान्
संवासेन महोदयश्रियमयं द्वीपो ददात्यव्ययाम् ॥ ८१ ॥ इति श्रीदिग्विजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते जम्बूद्वीपवर्णनो नाम प्रथमः सर्गः ॥ १ ॥
[ ७५ ] १ " अन्तर्जवन्याविव रत्नसानोः" इत्यत्र मेरुरुच्च | ऽपि वस्तुना दूरस्थमाच्छायते ॥ इति न ताभ्यां तद्व्यवधानमिति विचार्य दूरस्थत्वात् । लघुना
[75]1 'महाहिमाद्रिः' एतन्नामा पर्वतः । 2 ' रुक्मिनामा' 'रुक्मि' इत्याख्यो गिरिः । 3 'सहज' भ्रातरौ । 4 'अगौ' पर्वतो 1 5 'जवन्यौ' यवनिके ।
[76] 6 'हरिवर्ष रम्यक्' - एतन्नाम्नी क्षेत्रे | 7 'कल्पद्रुमाऽऽमोदमिषाद्' कल्पवृक्षस्य सुरभिव्याजतः ।
For Private
१३
[77] 8 'लघुर्हिमाद्रिः' एतन्नामा पर्वतः । 9 'शिखरी' तन्नामकः पर्वतः । 10 'प्रमायाः ' मानस्य ।
[78] 11 'हेमन्त हैरण्य कनामधेयम्' 'हेमन्त थ' 'हैरण्यक' इत्येतयोर्नामधेयमभिधानम् ।
[79] 12 'सूरकलाधराद्यैः' सूर्याचन्द्रमसावादौ येषां तैः ।
Personal Use Only
5
10
15
www.jainelibrary.org