SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ पद्य ३३-४९] दिग्विजयमहाकाव्यम् १०९ मथितकुपथः सर्वां पूर्वाऽवनीमवनीपति प्रतिममहसा पुण्यां मार्गोदयादभिनन्दयन् ॥४१॥ पुरमथ पुरः पौरैर्गौरैर्यशोभिरलोभिभिः परिसरसरद्गङ्गासंगादिवाऽऽश्रितमध्वनि । सुभगमगमन्नाम्ना धाम्ना प्रयागमनुत्तरं मुदितमनसाऽऽदेशाधीशः प्रभोः प्रभयाऽभयः॥४२॥ त्रिदशसरितोदीच्यां चञ्चत्तरङ्गपटाश्चलैः प्रणयकलया संभोगान्ते श्रमापगमे कृते । पुरि निवसतां यूनां नृत्यात् तरङ्गकरैर्मुदे भवति तरणेः पुत्री भ्रातुः प्रियां दिशमास्थिता ॥ ४३ ॥ उभयभुजयोः स्थाने यस्याः पुरः सरितौ लस द्वलयकलया वीचीलक्षैः प्रपश्चितकौशले । शिरसि वहते प्राकारोऽपि स्फुरन्मुकुटश्रियं ननु तनुभृतस्तस्या वश्यात्मनो कुरुते न किम् ? ॥४४॥ अलघुसदनैर्यत्रेभ्यानां कृताम्बरलम्बनै रुपगतरवेस्तापान्नैव क्षणं जनतासुखम् । इति कृतमतिर्वेधा द्वेधा सरिचलितोच्छ्रल द्विमलसलिलैः शैत्यं तस्यां विधापयति स्वयम् ॥ ४५ ॥ दिवि सुरपुरं यन्माधुर्याद् विचार्य पराजितं __ भुवि नरवपुर्देवैः स्थानं कृतं रुचिराजितम् । प्रणयवशतस्तेषामेषाऽन्वगादिव निम्नगा तदिह तरवः क्रीडोद्याने बभुमरुतामगाः ॥ ४६ ।। सकलहरितां मध्यं मेध्यक्रियाऽध्यवसायत: समजनि पुरी तीर्थ व्यर्थीकृताखिलपातका । ऋषभचरणप्रत्यासत्त्या विवेकपरात्मनां तुलयति न तद्दिश्या लङ्काऽलकाऽप्यनया नयात् ॥ ४७ ॥ नगरपटले धाम्नां सीना पुरं नृपुरन्दर प्रतिममभितो लङ्कातङ्काऽलकादिनिषेवितम् । तदिह यमुना-गङ्गे सङ्गे प्रकीर्णकवैभवं समनुभवतश्च्छत्रे साले विचालमुपस्थिते ॥४८॥ जिनदिनकरश्रेयस्तेजः प्रसृत्वरमद्भुतं पुरि सुमनसां हृत्पद्मानां विबोधनतः श्रुतैः । परिणमयताऽऽदेशेशेन क्रमात् तटमीयुषा सुरसरिदपि स्पृष्ट्या दिष्ट्याऽचिरादुपतुष्टुवे ॥४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy