________________
पद्य ९८- १३० ]
दिग्विजय महाकाव्यम्
सुन्दरं यदि पुरन्दरधाम स्यादितस्तदिह शून्यपदे किम् । तत्प्रजा अपि च मन्दरभूभृत् कन्दरेषु कृतमन्दिर रागाः ॥ ११५ ॥ विभ्रमादिव पुरेक्षणजन्यान्निश्चला हि सकलावयवेषु । पुत्रिकाकपटतोऽप्सरसस्तन्निर्निमेषनयना इह तस्थुः ॥ ११६ ॥ राजधानि भुवनेऽपि महत्त्वं तत्त्वतः प्रभवति स्म कुतस्त्यम् । शङ्कयेऽतिविगतं नगरेऽस्मिन् वीक्षणेन नृपवासवधाम्नाम् ॥ १०७ ॥ कौशिकः स खलु कौशिक एव यन्नृपस्य महसा सहसाऽऽसीत् । प्राप्य जीवति कथञ्चन भिक्षुर्दक्षिणां प्रतिदिनं यमराजः ॥ ११८ ॥ तन्निवासनगरस्य मयूखारोपमर्हति कदाऽपि न पूषा । स्पर्द्धते किमु सुराशनयूषा गोपयःप्रभृतिपेय विभूषा ॥ ११९ ॥ [ इति आगरानगरवर्णनम् ]
दर्शयन्ति फलदा इह बीजं मार्गणानुपवने पुरबाह्याः । शिक्षिताः पुरजनादिव दानं गौरवाय सुलघोरपि वक्तुम् ॥ १२० ॥ द्महे लघुफलानि गुरुत्वे लाघवेऽपि भवतां गुरुदानम् । उन्नमय्य विनमन्ति तटस्थान् पादपा इति धिया किमु पौरान् ॥ १२१ ॥ वीरुधस्तनुतरा अपि दद्युः काञ्चनाप्यतिमहान्ति फलानि । तगुणेन शिरसाऽपि रसालास्ताः परं निदधते फलभाजः ॥ १२२ ॥ शिक्षिताः क्षितिरुहः पुरलोकाद् दानधर्ममिव बाह्यवनस्थाः । उच्चतां ययुरतः सुमनोभिः शोभिताः परिवृता गुरुपात्रैः ॥ १२३ ॥ दानशौण्डचरिते किल पत्रालम्बनं विदधते वनतालाः । सर्वतोऽप्युपवनं क्षितिजानां तन्महोच्चशिरसो रसपूर्णाः ॥ पक्षिणामिव रुतेन वनालीरक्षिणां सबहुमानमनूद्य । दक्षिणां प्रददते फलपुष्पैः पक्षिणां कृतमुदस्तरवस्ते ॥ १२५ ॥ उच्छ्रिता इव दिवस्तरुवर्गं जेतुमीहितफलार्पणशक्तया । शाखिनोऽर्थिनिवहे स्फुटरागाः पल्लवैरुपवनेषु विरेजुः ।। १२६ ।। ते द्रुमा अपि च विद्रुमभासः पल्लवैर्धृतविपल्लवभावाः । नीरसं पदमिताः सरसत्वान्मोदमादधुरतो मधुयोगे ॥ १२७ ॥ भोजनेषु सुहृदां विपिनान्तस्ते जनेषु मिलितेषु यथेच्छम् । मोदकार्पणकलामुपलभ्य शाखिनोऽपि ववृषुः फलराजिम् ॥ १२८ ॥ [ इति उपवनवर्णनम् ]
१२४ ॥
भूरुहामुपवनेषु महत्त्वं पात्रसंगतिरसे बहुशाखाः । वीक्ष्य दानरुचिरुचतयैव स्पर्द्धयेव ववृधे धनभाजाम् ॥ १२९ ॥ यत्र सौधशिखरेषु खरांशोर्वाजिनः स्खलनशङ्कितयोच्चैः । उत्प्लुतिव्यसनिनः प्रशलान्तर्लङ्घयन्ति ससुखं शुचि मासे ॥ १३० ॥
Jain Education International
For Private Personal Use Only
१०१
5
10
15
20
25
30
www.jainelibrary.org