SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ दिग्विजय महाकाव्यम् अष्टमः सर्गः । अथ विक्रमभूपतेः क्रमाच्छरदां त्येष्टि [१७] शतव्यतिक्रमे । मुनिराड् मुँनि[७]राम[३]वत्सरे शिवपुर्यां विदधे गुंरुस्थितिम् ॥ १ ॥ शिवसंनिधिनेव यत्पुरे शिवरागः शिवमव्ययं हितम् । शिवपाठ रुचिर्द्विजन्मनां विदिता तच्छिवपुर्यसाविति ॥ २ ॥ अलकाsप्लकायते त्विषा पुरतोऽस्याः सुरतोत्सवाऽऽगमे । नगरी न गरीयसी दिवः प्रतिभाति प्रतिभाऽतिशायिनाम् ॥ ३ ॥ भवनं नवनन्दनश्रिया रहितं यत्र न किञ्चिदीक्ष्यते । वनमयरविन्दलोचनातनुरम्भाऽधिकरूपसम्पदा ॥ ४ ॥ कलिना बलिनाऽपंचिन्वता सुकृतस्याद्भुतवैभवं द्विधा । पुरमंत्र्ययशर्मबन्धुरं न पैरामृष्टमदुष्टदुर्णयम् ॥ ५ ॥ तनुजैरं दितेर्महाभुजैर्दनुजैर्वा मनुजैरसौ पुरी । ननु जैनविहार भासुरा मनसा सौमनसान्न कैर्धृता ॥ ६ ॥ रमणी रमणीयता लान्न कलाकेलिरमुं व्यमुञ्चत । रतिरप्यतिशायिनी जने सकला केलिकला स्वतः स्थिरा ॥ ७॥ पद्य ७२-७ ] [२] १ 'शिवसंनिधिनेव' शिवस्य हरस्य सारणेश्वरमूर्तेः सामीप्येन, धर्मकर्मणामत्यादरे शिवस्य मोक्षस्य सामीप्येनेवेत्यु प्रेक्षा । २ 'शिवरागः ' शिवस्य मोक्षस्य रागः, “शिवस्य मध्याने स्वामात्मानं ध्यात्वा" इति वचनात् शान्तरूपस्य राग इत्येवं समर्थनीयम् “शित्रं तु मोक्षे क्षेमे सुखे जले, शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे पुण्डरीकद्रुमे कीले, शिवा झाटामलोमयोः" इति हैमः [ अने० सं० कां० २ श्लो० ५५० -५५१] । ३ 'शिवम्' क्षेमम् । ४ 'हितम् ' हितकृत् । ५ ' शिवपाठरुचिः ' शिवस्य वेदस्य पाठस्तस्मिन् रुचिः प्रीतिः । ६ 'विदिता' ख्याता । [3] 5 “अलका” अलं भूषयतीयलका, "अलका ववौकसारा” | इति हैमः [ अभि० चिं० कां० २ ० १०५ ] । “पुर्योऽमरावती | भोगावती” इत्यरिसिंहः [ काव्यकल्पलतावृत्तिः, प्रतानः ४ स्तबकः ४ श्लो० २४२ ] 6 " सुरत" सुरतं मोहनम् "सुरतं मोहनं [1]1 'त्यष्टि" यष्टिः सप्तदश " अथ सप्तदशा त्यष्टिः " | रतम्" इति हैमः [ अभि० चिं० कां० ३ श्लो० २०० ] ॥ इत्यङ्कसंज्ञा । 2 ' मुनिरामवत्सरे' मुनयः सप्त " मुनिपर्वतशैलादिसप्ताचलनगाः स्मृताः” रामाः त्रयः “कृशानुगुणरामाभिपावकान लवह्वयः" इत्यङ्कसंज्ञा । 3 " शिवपुर्याम्" आधुनिक सिरोही' ति प्रसिद्ध नगर्याम् । 4 'गुरुस्थितिम् ' चातुर्मासिकाचस्थानम् । [5]7 "कलिना" कलिश्चतुर्थो युगस्तेन । 8 " अपचिन्वता " अपहर्त्रा । 9 " अत्र्ययशर्मबन्धुरम् ” 10 "परामृष्टम्” भृशं चिन्तितम् ॥ अक्षीणसुखशोभनम् । Jain Education International ६७ 5 For Private Personal Use Only [४] ७ "नवनन्दनश्रिया" नवा ये नन्दनाः पुत्रास्तेषां - श्रिया; वनपक्षे नन्दनं नाम देववनं तस्य श्रिया " नन्दनं वनम्" इति हैमः [ अभि० चिं० कां० २ श्लो० ९२] । ८ " अरविन्दलोचनातनुरम्भाऽधिकरूपसम्पदा" अरविन्दान्येव लोचनानि यद्वाऽरविन्दानां रोचना शोभाऽतनवो महत्यो या रम्भास्तासां यदधिकं रूपं सैव संपत् तया; भवनपक्षेऽरविन्दलोचनानां स्त्रीणां तनौ रम्भा देववनितास्ताभ्योऽतिशायि रूपलक्ष्म्या | [५] ९ " सुकृतस्य " पुण्यस्य कृतयुगस्य वा । [6] 11 "तनुजैः " पुत्रैः । 12 " अदितेः” पुनर्वसु नक्षत्रस्याधिष्ठातृ देवस्य । 13 "दनुजैः " अमुरेः, "असुरा दैत्यदैतेयदनुजेन्द्रा ० " इत्यमरः [ अमर० कां० १ ० १२] "दैत्ये दितेर्दनोः पुत्राः" इत्यरिसिंहः [ काव्यकल्पलतावृत्तिः प्रतानः २, स्तबकः २, श्लो० ५८ ] । 10 15 www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy