________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[६१] श्रीमालवंशीय-श्राविकासलवणा-प्रदत्त-[ अजितप्रभाचार्यरचित ]-शान्ति
जिनचरित-पुस्तकप्रशस्तिः ।
[प्रदानसमयः प्रायः १४ शताब्दी ] विश्वसेनकुलोत्तंसोऽचिरादेवीतनूद्भवः । श्रीशान्तिनाथो भगवान् दद्यान्मंगलमालिकाम् ॥१॥
5 संघाधिपत्यादिपदप्रतिष्ठासमन्वितैर्भव्यजनैर्विशालः । दानादिपुण्योदयजन्मभूमिः श्रीमालवंशो विदितो जगत्याम् ॥२॥ बभूव तत्रांबुधितुल्यरूपे परोपकारादिगुणैः प्रसिद्धः । कल्पद्रुकल्पोऽर्थिजनस्य धीमान् रत्नाभिधानो वररत्नतुल्यः ॥३॥
सहजाकः सुतस्तस्य रेजे राजसभोचितः । धर्मकृत्यरतो नित्यं निजवंशविभूषणः ॥ ४ ॥ तस्यात्मजो धार्मिकचक्रचूडामणिः सुधाकारगिरांनिवासः ।सतां हि सेव्यः किल नागसिंहः कुलोदयायैव कृतावतारः॥५॥ सालादनानाम तदंगनाऽभूत् साहादवक्त्रा गुरुदर्शनेन । यया चतुष्कं सुषुवे सुतानां खवंशभारोद्धरणकधीरम् ।।६।। 10
हरिराजो विवेकेन रराज हरिविक्रमः । स्थिरपालः स्थिरप्रेमा साधुवर्गे विशेषतः ॥ ७॥ प्रतापमल्लः सुभगः सद्दाक्षिण्यमहोदधिः । चतुर्भुजश्चतुर्द्धर्मसमाचारपरायणः ॥ ८॥ भगिनी सुगुणा नाम सद्गुणानां निकेतनम् । लाखाकेन परीणिन्ये कमलेव मुरारिणा ॥९॥ तथा सलवणा नाम खसा लावण्यशालिनी । खकीयेन च शीलेन पवित्रितनिजान्वया ॥ १० ॥
श्रीपद्मप्रभसूरीणां स्वगुरूणां मुखांबुजे । शुश्रावेति महाभक्ता श्राविका सुगुणा गिरम् ॥ ११॥ 15 जिनेंद्रबिंब भवनं जिनस्य संघः सपूज्यश्च चतुःप्रकारः । सत्पुस्तकं तीर्थकरावदातविभूषितं यः कुरुते सुबुद्धिः॥१२॥
बोधिबीजं भवेत्तस्य निश्चलं च भवांतरे । केवलज्ञानलाभश्च ततो मोक्षसुखं पुनः ॥ १३ ॥ आकर्ण्य वाचं सुकृतैकबुद्धिः श्रीशान्तिनाथस्य जिनेश्वरस्य । पुण्यावदातेन युतं गुरुभ्यो ददौ शुभं पुस्तकमुत्तमं सा॥१४॥ जंबूद्वीपांतरे यावच्चतुर्वनविराजितः । अर्हचैत्ययुतो मेरुस्तावन्नंदतु पुस्तकम् ॥ १५ ॥
. शुभं भवतु लेखकपाठकयोः । मंगलं महाश्रीः ॥ [अन्याक्षरैः पश्चाल्लिपिः-]
जंबूद्वीपालवालः कनकगिरिमहाकल्पवृक्षाभिराम-स्तारालीपुष्पपूर्णः शशिधरतपनाभोगपत्रावलीढः ।
अग्रण्यानंतषट्कप्रचुरफलभरो राजते यावदित्थं, अन्थोऽयं वाच्यमानो जयति बुधगणैः श्रोतृपीयूषकल्पः ॥१॥ सुविवेगो संवेगो सुहगुरुजोगो कसायभंगो य । पत्ते दाणपसंगो न हुन्ति थोवेहिं पुन्नेहिं ॥२॥ न ते नरा दुर्गतिमामुवंति न मूकतां नैव जडखभावम् । न चांधतां बुद्धिविहीनतां च ये वाचयंतीह जिनेंद्रवाक्यम् ।।३।। 25
ओजस्तेजोगुणा धैर्य विवेको विक्रमो नयः । लावण्यं सौम्यता शैत्यं सलक्षत्वोपकारिता ॥ ४ ॥ नयो गम्मीरता स्थैर्य दाक्षिण्यं ऋजुशीलता । दातृवक्तृगुणान् दृष्ट्वा श्रीसंघे श्रीरवातरत् ॥ ५॥ जयंति जितमत्सराः परहितार्थमभ्युद्यताः, पराभ्युदयसंस्थिताः परविपत्तिखेदाकुलाः ।
महापुरुष...."श्रवणजातरोमोद्गमाः, समस्तदुरितार्णवप्रकटसेतवः साधवः ॥ ६॥ [पुनरन्याक्षरैः पश्चाल्लेखः-]
पूर्वोपात्तसुपुण्यबीजकमलां प्राप्य प्रमोदान्वितः, सत्पुण्योपचयं विधातुममलां सद्ज्ञानलक्ष्मी स्थिराम् ।।
श्रीजैनेंद्रागमसारमेतदनघं चित्रं चरित्रं मुदा, श्रीमच्छांतिजिनेश्वरस्य सुभटः संघान्वितोऽवाचयत् ॥ १॥ * एतत्प्रशस्तियुक्तं ताडपत्रात्मकं पुस्तकं पत्तने संघसत्कभाण्डागारे विद्यते ।
___20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org