________________
5
10
६०
15
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[ ६० ]
पलिपालवंशीय श्रा० कुमरदेवी लेखित औपपातिक राजप्रश्नीय सूत्रद्वयपुस्तकप्रशस्तिः * ।
वंशः प्रसिद्धो भुविपल्लिपाला - भिघोऽस्ति भूमीभृति लब्धरूपः ॥ २ ॥
अजनिष्ट विशिष्टश्रीः तत्र मुक्तामणिप्रभः । अरिसिंहो महतेजो कुमरदेवी च तत्प्रिया ॥ ३ ॥ श्रीमत्सूरिजिनप्रभांहिकमले धर्मं प्रपद्यानधं, या तुर्यां प्रतिमामुवाह विधिवत्सुश्रावकाणां मुदा । श्रद्धावृद्धित एव वित्तवपनं क्षेत्रेषु सप्तखथो, तन्वंती तनुजानसूत मनुजाधीशः (१) समाजस्तुतान् ॥ ४ ॥ प्रथमोऽजयसिंहाख्योऽभयसिंह द्वितीयकः । आमकुमारो मारश्रीः धांधलो धीरधीरभूत् ॥ ५ ॥ अतः (थ) चतुर्णां गृहिणीः स्पृहणीयसतीगुणाः । संततिं पुत्रपौत्राद्यां परिवर्णे यथाक्रमं ॥ ६ ॥ पढयावजयसिंहत्य हीरू - गउरिसंज्ञिते । वील्हण - सांगणौ पुत्रौ हीरू कुक्षिसमुद्भवैौ ॥ ७ ॥ हांसलाख्या प्रियाद्यस्य नाम्ना ज्झंजबहू (? झांझ - बडू ) सुतौ । सुहागदेवी सधर्मचारिणी सांगस्य तु ॥ ८ ॥
20
वल्लभाऽभयसिंहस्य नायिकिर्नयनामृतम् । सुतश्चाल्ह णसिंहोऽस्याऽऽल्हणदेवी च तत्प्रिया ॥ ९ ॥ आल्हणसिंहखसा स्वस्तिश्रस्त्रि (?) कुल भूषणं । सोहगामियदेजास्यः (?) संग्रामः सोहगांगजः ॥ १० ॥ पत्नी त्वामकुमारस्य धनदेवी गुणोज्ज्वला । जिनाज्ञासरसीहंसावासचंद्राऽऽजडौ सुतौ ॥ ११ ॥ पुत्रिकात्रितयं चंपलता - महणदेव्यथ । सुहवा मल्ल सिंहस्तु चंपलायास्तनूरुहः ॥ १२ ॥ जयतलदेवी नाम्नाऽस्त्यासचंद्रस्य वल्लभा । अमरसिंहप्रभृतयः पुत्राः पितरि वत्सलाः ॥ तुर्यस्य धांधल (स्य) स्यात्तत्प्रिया धांधलदेविका । तत्सुतसोमनामास्ति सहजलाऽस्य च प्रिया ॥ इतश्च -
१३ ॥
१४ ॥
[ लेखनकालः प्रायः १४ शताब्दी ]
आनंदकंदोद्गमवारिवाहः सदा सुरश्रेणिनरेंद्रवंद्यः ।
प्रभाभिरामो भवतां विभूत्यै भवेत्प्रभुश्रीजिनवर्द्धमानः ॥ १ ॥ सच्छायपर्वो घनजैनधर्मः स्थानेषु सर्वेषु विशेषितश्रीः ।
अश्रावि सुश्राविकया कुंरदेव्या ऽन्यदा मुदा । श्रीजिनप्रभसूरीणां गुरूणां धर्मदेशनाम् ॥ १५ ॥ 25 उदयं नीतो दिनकृत् शशी च तेनेह दीपितो दीपः । नयनं च कृतं जगतां जिनवचनं लेखितं येन ॥ १६ ॥ अथोपपातिको पांगराजप्रश्नीयपुस्तकम् । निशम्य देशनां तां सा खश्रेयार्थं व्यलीलिखत् ॥ १७ ॥ श्रीरत्नसिंहसूरीणां गच्छे आगमसंज्ञिते । सूर्युपाध्याय साधूनां व्याख्यानार्थमदान्मुदा ॥ १८ ॥
॥ शुभं भवतु श्रीसंघस्य ॥ छ ॥ छ ॥
* एतत्प्रशस्तियुक्तं ताडपत्रात्मकं सूत्रद्वयपुस्तकं पुण्यपत्तने भाण्डारकर प्राच्यविद्या संशोधन मन्दिराव स्थित राजकीय प्रन्थसंग्रहे विद्यते । द्रष्टम् - No 72 of 1880-81. Catalogue 1. 170.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org