________________
५९
जैनपुस्तकप्रशस्तिसङ्ग्रह । नयनाभ्यां मुखं पुष्पदंताभ्यां गगनं यथा । आभ्यां विजयसिंहोऽपि सुताभ्यां शोभते तथा ॥१५॥ धर्मकर्मसुनिष्णातस्तातीयीकस्तु धंधलः । वल्लभो बकुलदेव्यास्तुर्यो वरणिगाभिधः ॥ १६ ॥
.............. जाल्हणस्तु पंचमकः । दधतापि येन लघुतां बंधुषु भेजे परां गुरुतां ॥ १७ ॥ स्मरः शरैर्मानुषभूमिदेशः सुमेरुशैलैस्तनुरिंद्रियैर्यथा । पांडुस्तनुजैरिव वैरसिंहो रेजे तथा पंचभिरेभिरंगजैः ॥ १८ ॥
इतश्चश्रीमन्महावीरजिनेंद्रतीर्थकल्पद्रुगच्छे इह चंद्रगच्छे । शब्दान्वितः सुंदरपक्षयुग्मो द्विरेफलीलामवलंबमानः ॥ १९॥
........... [ अपूर्णा ]
पल्लीपालान्वय-श्रे० जसदूसन्तान-लेखित-[ माणिक्यचन्द्राचार्यविरचित ] पार्श्वनाथचरित-पुस्तकप्रशस्तिः ।
___10 [प्रशस्तरपूर्णत्वात् लेखनकालो नोपलब्धः।] रसर्षि-रवि-संख्यायां समायां दीपपर्वणि । समर्थितमिदं वेलाकूले श्रीदेवकूपके ॥ ३६ ॥ ग्रंथानं ५२७८ ॥ मंगलमस्तु ॥
॥ श्रीपार्श्वनाथाय नमः ॥ यत्रानेकबुधा अनेककवयो धिष्ण्यानि भूयांस्यलं, चंद्रस्योपचयः कलंकविकलः संजायते सर्वदा। 15 वक्रः कोऽपि न दृश्यते न च गुरुमित्रोदये निःप्रभः, पल्लीपालजनान्वयो नवनभोलक्ष्मी दधानोऽस्ति सः॥१॥ तत्रोल्लासितलोकभूरिकमलः श्लिष्यत्प्रतापाकृती, राजा मंडलवृद्धिकारणतया प्रीतिं समुत्पादयन् । दोषातिक्रमजातकांतिसुभगो बिभ्रत्सुवृत्तां तनु, मार्तडो जसदूर्धनी समभवन्नंदाणिपूर्मडनम् ॥ २ ॥
तद्भार्या योषितां वर्या परिचर्यापरायणा । जिनेशचरणद्वंद्वे शोभना शोभनाऽजनि ॥ ३ ॥ महाव्रतानीव सुताः स्युस्ताभ्यां पंच विश्रुताः । गुप्तित्रयमिवावद्यं पुत्रीत्रयं च जज्ञिरे ॥ ४॥ 20 तेषां च ज्येष्ठः किल पूर्णचंद्रो धर्मानुरक्तो यशश्चंद्रनामा ।
औचित्यचर्याचतुरस्त्वाभड-नाहड-जाल्हणाश्च तथा परे (१) ॥ ५ ॥ शीलमती च सहजू रत्नी च श्रावकव्रतम् । श्रीयशोभद्रसूरीणां चरणांते प्रपेदिरे ॥ ६ ॥ कल्हणा-ऽऽल्हण-रत्नाश्च राजपालश्चतुर्थकः । पूर्णस्यागण्यपुण्यस्य तनयाः सुनया अमी ॥ ७ ॥ कल्हणा-ऽऽल्हण-रत्नानां सुताः संति यथाक्रमम् । अजयश्चारिसिंहश्च गुरुदेवार्चने रतौ ॥ ८॥ 25 सुगुणसुवर्णशाली वित्राणेनैव गुरुगणाक्रमणम् । सुकवेः श्लोक इव स्तनंधयस्तिहुणपालोऽभूत् ॥९॥ यशश्चंद्र-जगद्देवोऽभूत्ततोऽपि वरदेवः। आभडः श्रीमानतुंगचरणांभोजषट्पदः ॥ १० ॥ आभडस्य सुता एतेऽभयश्रीकुक्षिसंभवाः । पांडवा इव विख्याताश्चित्रं कौरवसंगताः ॥ ११ ॥ प्रथमः पद्मसिंहाख्यो वीरचंद्रो द्वितीयकः । आसलो मूलदेवश्च देदलश्चाथ पंचमः ॥ १२ ॥
..............................[प्रशस्तिरियमपूर्णा ].............."
30
* ताडपत्रात्मकं पुस्तकमिदं स्तम्भतीर्थे शान्तिनाथमन्दिरगतभाण्डागारे विद्यते । दृष्टव्यम्-पिटर्सन् रीपोर्ट पुस्तक ३, पृ. १६३ ।
अन्तिमपत्रस्य नष्टत्वात् प्रशस्तेरस्या अपूर्णत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org