________________
5
10
20
५८
जैन पुस्तकप्रशस्तिसङ्ग्रह ।
आद्यः सरवण नामतः सुविदितो देवालयैः सुंदरां, सत्साधर्मिक लोकलक्षबहुलां गुर्वादिभिर्भासुराम् । श्रीशत्रुंजय- रैवतादिषु महातीर्थेषु यात्रां सृजन्, श्रीसंधाधिपतेः पदं निजकुले विस्तारयामासिवान् ॥ ८ ॥ पादलितपुरेऽपूर्वललताह्नसरोवरे । उद्धारं यच्चकारोरुद्रविणव्ययपूर्वकः ॥ ९ ॥
संसारदेवी भुवि...
25
1 .....लादिवरेण्यपुण्यैः फलेग्रही स्वीयजनुः ससर्ज ॥ १० ॥ द्वितीयोऽप्यद्वैतभाग्याभिरामः श्रीमान् धीमान् धांधना माऽजनिष्ट । यो दुष्काले भूरिलोकानशोकान् सत्रागारे भोजयित्वा वितेने ॥ ११ ॥ पादलिप्तपुरे पार्श्वप्रासादं यः समुदधौ । अन्यान्यपि बहून्येष धर्मस्थानानि चाकरोत् ॥ १२ ॥ सरवणसंघाधिपतेस्तनयो विनयोज्ज्वलो गुणविशालः ।
...... ************..
॥
- इति समरादित्यचरितं समाप्तम् ॥
15
परस्परपरिस्यूतनयगोचरचारिणी । अनेकान्तामृतं दुग्धे यद्गवी तं जिनं स्तुमः ॥ १ ॥ अप्राप्तोऽपि हि खंडनां गुणवते धर्माय हिंस्रो न वा, छायाभिः प्रणिहंति तापमभितो मुक्तः सदा पल्लवैः । निश्छिद्रोऽपि करोति यः श्रुतिसुखं वंशः क्षमाभृद्घनो-लासी कोऽपि महीतले स जयति श्रीमालनामा नवः ॥ २ ॥ वंशेऽत्र तेजोऽद्भुतवृत्तशाली मुक्तामणिवसरिसंज्ञकोऽभूत् ।
तस्थौ न केषां हृदये गुणेन निजेन यरिछद्रविनाकृतोऽपि ॥ ३ ॥
शचीव देवराजस्य रोहिणीव सितद्युतेः । सद्वासनेव धर्मस्य लक्ष्मीस्तस्य प्रियाऽभवत् ॥ ४ ॥
अचलस्थितिः कुरंगव्याघातिनखरवृत्तिसंयुक्तः । सिंह इव वैरसिंहः सुतः सुता चानयोर्मादूः ॥ ५ ॥ गेहिनी गेहनीतिज्ञा तस्य श्रीरिव देहिनी । अभूदाऽऽनलदेवीति धर्मकर्मसु कर्मठा ॥ ६ ॥ असूत सा पंच सुतान् मनुष्यक्षेत्रस्य धात्रीव सुमेरुपर्वतान् । परं सदाप्येकसुखत्वमेषां केषां न रेखाकरमस्ति चित्ते ॥ ७ ॥ आद्योऽस्ति भांडशालिकमदनो लाडिपतिर्जिनप्रतिमाः । कारितवान् मंगलपुरचैत्ये पुण्याय पितृमात्रोः ॥ ८ ॥ प्रवरां वेलाकूले पौषधशालां च मातृपुण्याय । तनया विनयादिगुणोपेताः पंचास्य विद्यते ॥ ९ ॥ क्षेमसिंह - भीमसिंहौ तेजः सिंहा ऽरिसिंहकौ । पंचमो जयसिंहस्तु दुहिता जासलाभिधा ॥ १० ॥ प्रथमोऽपि धर्मकार्ये द्वितीयीकस्तु लघुबंधुः । कलिकालमत्त करिवरसिंहो विजयसिंहोऽस्ति (१) ॥ ११ ॥ यथा प्रभा प्रभाभर्तुर्यथा चंद्रस्य चंद्रिका । यथा छाया शरीरस्य तथाशेषगुणाश्रया ॥ १२ ॥
30
[ इत आरभ्य १८ अङ्कपर्यन्तानि पद्यानि प्रसृष्टानि ताडपत्रादर्शे । ] श्रीदेवसुंदराचार्य संतानजमुनीश्वरैः । वाच्यमानः सदा जीयात् पुस्तकस्त्रस्तकल्मषः ॥ १९ ॥
[ ५८ ]
श्रीमालवंशीय वैर सिंहलेखित समरादित्य चरित पुस्तकप्रशस्तिः * । [प्रशस्तेरपूर्णत्वात् लेखनकालो नोपलब्धः । ]
पूनी दयिताऽस्योदय पालो -दयमतिसुता विरेजे या । निजवंश प्रासादे विमलगुणा वैजयंतीव ॥ १३ ॥ युग्मम् ॥ आद्योऽस्ति राजसिंहस्तत्तनयो जैत्रसिंह इतरस्तु ।
नायक-सहजल-सोहग- पद्मलनाभ्यस्तु पुत्र्य इमाः ॥ १४ ॥
Jain Education International
एतत्प्रशस्तियुक्तं ताडपत्रात्मकं पुस्तकं पत्तने संघसत्कभाण्डागारे विद्यते । अन्तिमपत्रस्य नष्टत्वात् प्रशस्तिरपूर्णप्राया । द्रष्टव्यम्पिटर्सन् रिपोर्ट पुस्तक ५, पृ० ९१ ।
For Private & Personal Use Only
www.jainelibrary.org