________________
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[५३] गूर्जरश्रीमालवंशीय-कोशाधिपदेवप्रसादसन्तति-लेखित [हेमचन्द्रीय ]
__ नेमिचरित्रपुस्तकप्रशस्तिः । __ [लेखनसमयो नोपलब्धः, परं वर्णनानुसारतः १३ शताब्दीपूर्वभागो ज्ञायते ] सद्वृत्तादिगुणौघरत्नरुचिरः शाखाशतैर्विस्तृतो, नव्योन्मीलदखर्वपर्वकलितश्छायास्पदं भूभृतां । उच्चैवंश इवास्ति गूर्जरवरः श्रीमालवंशः क्षितौ, सद्धर्मा (1) परमेष संततिफलैर्विश्वोपकारोद्यतः ॥ १ ॥ एतस्मिन् गुणरत्नरोहणगिरिदेवप्रसादाभिधः, स्तुत्यानेकगुणौघरत्ननिधिभिः कोशाधिपो नूतनः । जातो यस्य विवेककल्पविटपी. चिन्तालवालान्तरे, विश्वप्राणिगणोपकारकरणप्रावीण्यमुद्राफलः ॥२॥ नाम्ना महणलदेवीति प्रिया तस्य प्रियंवदा । शुद्धशीला तयोः पुत्री जज्ञे पुत्रद्वयं ततः ॥३॥ सुता माल्हणदेवाख्या ठकुरचाहडप्रिया । विश्वान्तः संततिर्यस्याः श्रेयोभिः कीर्तिभाजनम् ॥ ४॥ 10 देवं खीयगुरुं मनोज्ञवचनैर्यः स्तौति न खं पुनः, सर्वस्योपकृति तनोति नितरां न खस्य कस्मादपि । संसर्ग गुणिनां सदैव कुरुते न वापि पापीयसां, स श्लाघ्यो बहुदेव इत्यभिधया पूर्वस्तयोरंगजः ॥ ६॥ तत्पनी जिनराजचारुचरणाम्भोजद्वयीभृङ्गिका, श्रीमत्पंचनमस्कृतिस्मृतिपरप्रावीण्यपुण्योन्नतिः । शीलाचारविचारसारयुक्ता हारावलीभूषिता, ख्याता श्रीजगदेवमन्त्रिदुहिता शृङ्गारदेवी भुवि ॥६॥ युक्तायुक्तविचारनिस्तुषमतिालप्रसादः पर-स्तस्याभूत् सुभगा कलत्रमभवत्तजन्मसूनुद्वयं । आद्योऽस्तीह विशुद्धबुद्धिकलितः सूनुर्नृसिंहाभिधः, सौम्रात्रप्रथितोरुवृत्तकलितोऽन्यो रत्नसिंहाभिधः ॥ ७॥ सुतत्रयं सुता चैका बहुदेवस्यापि संततिः । बालभावेऽपि यश्चित्रं प्रवालचरितोत्तमं ॥ ८॥ भक्तिर्व्यक्तिरभिज्ञविस्मयकरी पित्रोस्तथा बन्धुषु, शान्तिः शैशवसङ्गमेऽपि सुधियां केषां न दत्ते मुदं। .
औचित्यं च पुराणपूरुषजनासाध्यं च यस्योच्चकैः, सत्पुत्रः प्रथमो विवेकवसतिः श्लाघास्पदं छडुकः ॥९॥ सुधामूर्तिरिवान्यश्चाहादको वद्दकाभिधः । शूरः प्रतापमार्तण्डस्तृतीयः पेथडः पुनः ॥ १० ॥ नाम्ना नायकदेवीति सुतारनं सुताऽभवत् । तपस्तेजोद्भुतं यस्या नादपीयूषसंभूतं ॥ ११॥ नाम्ना कपूरदेवीति छड्डुकस्य प्रियाभवत् । सङ्ग्रामसिंहस्तत्पुत्रो हंसकादिसुताद्वयं ॥ १२ ॥ नाम्ना सुदसलदेवी गेहिनी वद्दकस्य च । धर्मरङ्गो यया चक्रे न प्रमादे निजं मनः ॥ १३ ॥ ____ x x
[अपूर्णा ] x x [५४]
25 प्राग्वाटवंशीय-नारायणप्रेष्ठि-लेखित-[ नेमिचन्द्रसूरिकृत-] उत्तराध्ययनसूत्र-वृत्ति
पुस्तकप्रशस्तिः ।
लेखनकालः प्रायः १३ शताब्दीप्रान्तभागः] प्राग्वाटवंशेऽजनि मोहणाख्यः श्रेष्ठी प्रिया तस्य सुहागदेवी।
तयोः सुतो नागडनामकोऽभूत्तस्यापि भार्या सलघु प्रसिद्धा ॥ १॥ * एतत्प्रशस्तियुक्तं ताडपत्रात्मकं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरगतभाण्डागारे विद्यते। अन्तिमपत्रस्य विनष्टलात्, अपूर्णा एवेयं प्रशस्तिरुपलभ्यते।
ताडपत्रात्मक पुस्तकमिदं स्तम्भतीर्थे शान्तिनाथमन्दिरगतभाण्डागारे विद्यते । डा. नं. १६ । द्रष्टव्यमू-पिटर्सन रीपोर्ट पुस्तक ३, पृ०७१।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org