________________
5
५४
15
धर्मार्यादिचतुःप्रकारपुरुषखार्थोद्यतस्यान्यदा, द्वौ द्वौ सुंदरभार्ययोर्वरसुतौ श्राद्धादेवस्य तौ । संजातौ कुलजप्रियौ सुसरलौ पार्श्वाख्य- मूणागकौ, राजिन्या बुधलक्ष्मणो गुणनिधिर्नागेंद्रनामानघः ॥११॥ सन्नेमिचंद्र - गुणमंदिर-देवचंद्रसूनुद्वयं व्यजनि चांदिगनामधेयात् । प्रद्युम्न-शंबकृतनामकमुज्ज्वलांगं सत्पुंडरीकसुतयाजनि पुत्रयुग्मं ॥ १२ ॥
10 नागेंद्रः शुभधर्मकर्मनिरतः सन्मोहिनी भार्यया, पद्मावत्यभिधानया सरलया स्वस्त्रीयया संयुतः । वाहिन्या सुतया सुतेन गुणिना सुश्रीकुमारेण वै, शांतापत्ययशः प्रियानघयशोदेवेन धर्मार्थिना ॥ १३ ॥ अथान्यदा दानतपोविधानसुभावनाशीलसनाथधर्मे । जिनप्रणीते विदधन् प्रयत्नं शृणोति धर्म्यं वचनं गुरुभ्यः ॥ १४ ॥ तद्यथा - निरवधिभववार्डो कर्मदोषाद्धमंतः, प्रवरशरणहीना योनिलक्षेषु जीवाः ।
कथमपि त्रुटि (?) योगान्मानुषं जन्मरलं, सकलगुणविशिष्टं कष्टलक्षैर्लभंते ॥ १५ ॥ प्राप्य तत्प्राणिभिः प्रार्थितार्थपदं प्रेरणाप्रोद्यतप्रांजलप्रेरितैः ।
प्रत्यहश्चितयित्वा धनाद्यस्थिरं कर्तुमेवोचितं चारु जैनं वचः ॥ १६ ॥
20
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
चतुर्भिरेभिर्जिनधर्म लीनैर्विभावितागाधभवाद्विभावैः । व्यधायि घंघाणकसंनिवेशे शरण्यचंद्रप्रभदेवहर्म्यं ॥ ८ ॥ प्रत्याख्यानं येन कृत्वौदनादेः पद्भ्यां निर्गत्योज्जयंते नगेंद्रे । श्रीमन्नेमिर्वेदितः पूजितश्च क्षिप्रं भूयाद्यक्षदेवः ससौख्यं ॥ ९ ॥ . यक्षदेवस्य तस्याद्यमी (?) जातवान् चारुपुत्रः प्रियः शांतनामादिमः । धर्मकर्मा सुशीलाम्रदत्ताभिधः क्रोधकोपोजितः कमरुः पोजितः (१) ॥ १० ॥
25
30
प्राणातिपातविरतिप्रमुखानि यानि, जैनागमे निगदितानि महात्रतानि । तानि क्षमो यदि न कर्त्तुमशक्तियोगाद्यूयं कुरुध्वममलं गृहिधर्ममेनं ॥ १७ ॥
कर्त्तव्यं निपुंगवस्य महनं स्तोत्रैश्च तत्संस्तवः, सेव्यः साधुजनः प्रसन्नवदनैः श्रव्यं जिनेंद्रोदितं ।
चिंत्या द्वादशभावना निजहिते कार्यः प्रयत्नो महान्, शक्त्या चान्यहिते भवाब्धितरण प्रत्युद्यतैः प्राणिभिः ॥ १८॥ मोहादिद्विपकुंभ भेदनविधौ येषां सदा पौरुषं, कामित्वं कमनीयमुक्तिललनापीनस्तनस्पर्शने । न्यायोपात्तधनं गतं जिनमतक्षेत्रेषु सप्तखहो, तेषां पौरुषकामिता विभविता मन्ये कृतार्था भुवि ॥ १९ ॥ रम्ये श्रीजिनपुंगवस्य सदने बिंबे तदीयेऽनघे, संघे श्लाघ्यतमे प्रशस्तचरिते पूज्ये चतुर्वर्णके । सर्वज्ञागमलेखने विनिहितं वितं भवेदिष्टदं, सत्क्षेत्रे विधिनोप्तमिष्टसमये शाल्यादिवीजं यथा ॥ २० ॥ ये कृत्वा जिनमंदिराणि विधिना संपूज्य वस्त्रादिभिः, श्रीसंघं समुपात्तनीतिविभवाः श्रद्धापराः श्रावकाः । स्याद्वादप्रतिबद्धवाक्यजनक श्रीवीतरागेण य-निर्गीतं किल लेखयंति भविनः किं किं न तैः सत्कृतं ॥ २१ ॥ श्रुत्वा पुस्तकवाचनामनुदिनं गृह्णति केचिद्रतं, देवाधीशजिनेंद्र पूजनपराः श्राद्धा भवेयुः परे । अन्ये भद्रकभावभावितमनाः सद्धर्मयोग्या नरा, जायंते खलु यस्य पुस्तकमिदं हेतुः स तच्छ्रेयसः ॥ २२ ॥ इत्याकर्ण्य जिनप्रणीतमनधं धर्मं गुरुभ्यस्ततः, पर्यालोच्य कुटुंबकेन गुणिना नागेंद्रनामा गृही । सिद्धाख्येन कृतां कथामुपमितिं सिद्धांतसारोद्धृतां, तोषादेष सुधीर्व्यली लिखदिमां स्वश्रेयसे पुस्तके ॥२३॥ यावन्मेरुः प्रतपति रविद्यतते यावदिंदु-र्यावद्वायुः स्फुरति गगने तारकाः संति यावत् । यावद्भूमिः प्रवहति पयः सागरे यावदेत तावन्नंद्याद्गुणिभिरनिशं पुस्तकं वाच्यमानं ॥ २४ ॥
| मंगलं महाश्रीः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org