________________
जैनपुस्तकप्रशस्तिसङ्ग्रह। प्राणा वायुमयाः खभावतरला लक्ष्मीः कटाक्षस्थिरा, खाम्यं बालविलंबितातनुशिलावस्थानदुःस्थं सदा । . वातांदोलितदीपकुड्मलदलप्रायः प्रियैः संगम-स्तन्नास्तीह किमप्युदारमनसामाशामिवेशास्पदम् ॥ ३७ ॥ तल्लब्ध्वा मनुजेषु जन्म विमलं संप्राप्य देशादिकं, श्रुत्वा श्रीजिनचंद्रवाचमुचितां श्रीमद्गुरूणां पुरः। खाघीने च धने च संगतवति खीये कुटुंबे सतां, युक्तो धर्मविधान एव सततं कर्तुं महानुद्यमः ॥ ३८॥ सम्यग्ज्ञानपुरःसरश्च महतां धर्मादरः संमतः, प्रायस्तच्च जिनागमादविकलं संजायते धीमताम् । सर्व लोकमवेक्ष्य शांतविशदप्रज्ञाप्रकर्षोद्यमं, काले सोऽपि कलौ न्यवेशि मुनिभिः संघोत्तमैः पुस्तके ॥ ३९॥
चारित्रभारचरणासहमानसेन पंचप्रकारविषयामिषलालसेन ।
पात्रादिदानमयधर्मवता तदेयं लेख्यं परिग्रहवता गृहिणा तदेव ॥ ४० ॥ एवं विचिंत्य सुचिरं श्रेयोथे खस्य सा च राज्यश्रीः । श्रीशांतिनाथचरितस्य पुस्तकं लेखयामास ॥ ४१॥ विरचितविचित्ररेखं सुवर्णपत्रावलीकलितशोभम् । यद्भाति करे विदुषां कंकणमिव कीलिकारम्यम् ॥ ४२ ॥ 10 राकाशीतांशुशुभः स्फुरदमलदृशः सर्ववस्तुप्रकाशी, सम्यग्ज्ञानप्रदीपस्त्रिभुवनभवनाभ्यंतरे भासमानः । यावन्मोहांधकार शमयति सकलं पूरिताशेषदोषं, तावन्नंद्यान्मुनींद्रेरयमिह सततं पुस्तकः पठ्यमानः ।। ४३ ॥
[५२] धर्कटवंशीय श्रेष्ठिनागेन्द्र-लेखित-[ सिद्धर्षिकृत ] उपमितिभवप्रपंचाकथापुस्तकप्रशस्तिः ।*
15, [लेखनसमयो न निर्दिष्टः, परं वर्णनानुसारेण १२-१३ शताब्दी संभाव्यते ] श्रीमालाचलमौलिमूलमिलितस्त्रैलोक्यसुश्लाघितः, पर्वालीकलितः सुवर्णनिलयः प्रासादलब्धालयः । लीना: भ्यकुलः प्रलीनकलुषः शुभ्रातपत्रानुगो, वंशोऽस्ति प्रकटः सदौषधनिधिः श्रीधर्कटानां पटुः ॥ १॥ सारासारविचारचारुचतुरः सारार्थबद्धादरः, संसारोदरवर्विजंतुशरणश्रीमजिना परः । .. कारुण्याकरसद्गुरुस्तुतिवशप्राप्तार्थदानोद्यत-स्तत्रात्मीयकुलकमोचितरतः सन्नेमिचंद्रोऽभवत् ॥ २ ॥ 20
___ तस्यानघा घनपयोधरयुग्मरम्या, रामानुरूपगुणरंजितभर्तृचित्ता ।
- चिंताव्यतीतफलदायकधर्मलीना, निर्वाणनामविदिता जनतासु पत्नी ॥ ३ ॥ जीवाजीवपदार्थसार्थवचनः संपूर्णचंद्राननः, सर्वाधीनधनः सलीलगमनः क्रोधेभपंचाननः । नैपुण्यार्जितसज्जनः प्रतिदिनप्रारब्धदानावनः, सूनुः श्लाषितसर्वदेवभुवनख्याताभिधानस्तयोः ॥ ४ ॥ ..देवेन केनापि कदाचिदेष, नीतो रजन्यां खगृहात्प्रसुप्तः।
25 अष्टापदे वंदितवान् जिनेंद्रान् , प्रातः खहस्ते कुसुमं ददर्श ॥ ५॥. सदा दानाशक्ता खकुलविमलाचारनिरता, सुशीलप्रख्याता परहितरता दैन्यरहिता । अमानातिकांता गुणगणयुता सज्जनमता, सदच्छुप्तानामा वरसहचरी तस्य च तयोः ॥ ६ ॥ लक्ष्मीपतिः सुतनयोऽजनि यक्षदेवः, श्रीराजिनीनयनसंमद आम्रदेवः। धीधीमनोभवनदीपकचांदिगाख्य-स्तुर्यो यशोमतिवधूप्रियपुंडरीकः ॥ ७ ॥
* एतत्प्रशस्तियुक्तं. ताडपत्रीयपुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरभाण्डागारे विद्यते । द्रष्टव्यम्-पिटर्सन् रीपोर्ट पुस्तक ३, पृ. १४९-५३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org