________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । चारित्राचरणैकधीरमनसो गीतार्थचूडामणेः, विद्यानां मणिदर्पणस्य शमिनः सेव्यस्य पुण्यार्थिभिः । यश्च श्रीमुनिचंद्रसूरिसुगुरोः पादांबुजं सेवितुं, वाञ्छन्मत्सरवर्जितः सुरवधूप्राणेश्वरत्वं गतः ॥ १४ ॥
निःसीमधर्मनिलयं कलितं सदथैः, सद्वृत्तताविरहितं न कदाचनापि । ख्यातं जगत्त्रयमिवापदनंतसत्त्वं, पूर्णासुतत्रयमतीव ममीरमध्यम् ॥ १५॥ लक्ष्मीविलासकलितो बलिदर्पहता, सत्यानुरागिहृदयो विधिपक्षपाती । लक्ष्मीधरः सुतवरोऽजनि तत्र मुख्य-श्चित्रं तथापि न जनार्दनतामुपेतः ॥ १६ ॥
आराधितश्रीजिननेमिनाथः, संपादितानंतखलप्रमाथः । आसीद् द्वितीयो धनदेवसंज्ञः, सदा सदाचारविचारविज्ञः ॥ १७ ॥ यस्यासमानफलकांतगुणाभिरामं, संरुद्धरंध्रमविलाभिजलप्रवेशम् ।
सद्धीवरैरनुगतं मतियानपात्रं, गंभीरकार्यजलधेः परभागमेति ॥ १८ ॥ विवेकजनवल्लभः स्फटिकशैलशुद्धाशयः, कलंकविकलः सदा सकललोकसंतोषदः । बभूव जिनपूजकः सुगुरुवंदकः श्रावक-स्तृतीय इह नंदनः सुजननंदनः श्रीधरः ॥ १९॥ तत्रोजिलस्य समजायत धर्मपत्नी, मंदाकिनीसलिलनिर्मलशीलयुक्ता ।.
लक्ष्मीः समस्तजनवाञ्छितदानदक्षा, चित्रं न निर्गुणरता न चलखभावा ॥ २० ॥ 15 उल्लासकाः सुमनसां विदितानुभाव-संपादकाः समयिनां बहुलं फलानाम् ।
नित्यं निजक्रमयुता भुवनप्रसिद्धाः, पुत्रास्तयो ऋलुसमाः षडिहोपजाताः ॥ २१॥' कारुण्यरत्नांकुरमेरुशैलः सौजन्यपीयूषरसांबुराशिः । आद्यः सुतोऽजायत वर्द्धमानस्तेषां कलाभिः परिवर्द्धमानः ॥ २२ ॥ अपारगांभीर्यनिवासभूमिर्विद्वत्सु श्राद्धादिजनोपकारी । अनल्पलावण्ययुतो द्वितीयः पुत्रः पवित्रोऽजनि मूलदेवः ॥२३॥
कीर्तेः पात्रं निजगुरुगिरां पालने लब्धलक्षः, स्थानं नीतेर्जनकनयनानंददायी सदैव। . 20 दूरीभूताखिलख..... लो जातवान्पुत्ररत्नं, तार्तीयीकः कुशलवसुतावल्लभो रामदेवः ॥ २४ ॥
बभूव कारुण्यपरिग्रहाय कृतागृहः कुग्रहदर्पहता । विपत्तिसंपत्तिसमानुरागी यशोधरो धीरिमधाम तुर्यः ॥ २५ ॥ जितेंद्रपूजारचनानुबंधबद्धोद्यमो निर्मलकीर्तिशेषः । भक्त्या समासेवितसर्वदेवस्ततोऽनुजोऽजायत सर्वदेवः ॥२६॥ मुक्ताफलारंभरतिर्न दीनो विश्रामभूमिः पुरुषोत्तमानाम् । पयोधिवन्नित्यगमीरभावः षष्ठस्तनूजोऽजनि चापदेवः ॥२६॥
' तत्रासी रामदेवस्य वल्लभा शीलशालिनी । आसदेवीति विख्याता सुरूपा रूपिकापरा ॥ २८॥ 25 यशोधरस्य जाया च थेहिका हितकारिणी । शोभना सर्वदेवस्य चापदेवस्य शांतिका ॥ २९ ॥
अस्ति स थेहड इति प्रथिताभिधानः, कुंदावदातहृदयः सदयः सदैव । धीरो यशोधरसुतः कलितः कलाभि-नित्यप्रशस्तचरितः प्रणतो गुरूणाम् ॥ ३०॥ आनंदकः सुमनसां सततं सुधर्म-बद्धादरः कृतविमानमनःप्रवृत्तिः । ।
आस्ते महेन्द्र इव वल्लभचित्रलेखः श्रीरामदेवतनयो विनयी महेंद्रः॥ ३१ ॥ 30 हरिचंद्राभिधानश्च द्वितीयोऽभूतनूद्भवः । वल्लभः सर्वलोकानां प्रतिपच्चंद्रमा इव ॥ ३२ ॥
विनयी नयसंवासो चापदेवस्य नंदनः । गोसलाख्यः सुशीलोऽभूगुणरत्नमहानिधिः ॥ ३३ ॥ आसीदाद्या महेंद्रस्य महाश्रीरूपसप्रिया । राज्यश्रीः शीलकारुण्यदानौचित्यादिशालिनी ॥ ३१ ॥ राज्यश्रियस्त्रयः पुत्रा वीसलोऽथ यशोभटः । बोहित्थश्चेति संजाता गुणरत्नौधरोहणाः ॥ ३५ ॥ राज्यश्रीरन्यदा तत्र शुद्धश्रद्धानबंधुरा । इत्येवं चिंतयामास निस्समानगुणोज्वला ॥ ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org