________________
10
जैनपुस्तकप्रशस्तिसङ्ग्रह । भूभृत्प्रतिष्ठामधितिष्ठमानः श्रीमालवंशो न कुतोऽपि नीचः ।
संसेव्यमानोऽर्थिभिरुद्धतोऽप्यवष्टंभनाय प्रयतैः स जीयात् ॥ तस्मिन्नाम्नास्ति बेल्लत्फल इति कलिना यो बहिः कृत्य मुक्तस्तुच्छेनातुच्छमूर्तिः प्रणयिवितरणे कल्पशाखीव मर्त्यः । शंके पुण्यैकमार्गः कृतयुगसमयान्नास्ति पूर्वं तदस्मान्नो चेत्तत्संततिः किं सुकृतिशतकृतारंभरेखा च लीली ॥ मोक्षस्य हेतुः प्रथमस्तथा प्रत्यर्थितंत्र श्रुतधर्म एषः । श्रेयोऽर्थमेषोपमितिं व्यलीलिखल्लीली सुता तस्य पितुस्तदेतां ॥5 संसारवा पततां जनानां स्फुरत्ययं हस्त इवाविमनः । आलंबनीयः श्रवणादिकृत्यै-विलेखितो ग्रन्थ इयं च शास्तिः ॥
[५१] धर्कटान्वय-श्राविकाराज्यश्री-लेखित-[देवचन्द्रसूरिकृत-]शान्तिनाथचरित्र
पुस्तकप्रशस्तिः । [लेखनकालो न निर्दिष्टः, वर्णनानुसारेण १२ शताब्दयनुमीयते] श्रीविजयचंद्रसूरिशिष्य श्रीयशोभद्रसूरिशिष्य श्रीदेवप्रभसूरीणां सत्कं पुस्तकम् । प्राप्तो गोत्राधिपत्वं रसभरविलसन्नंदनारामरम्यः, सर्वस्याशाप्रकाशी सकलसुमनसां सेवनीयः सदैव । नानाकल्पागमानामुपचयजनको राजसम्मानभावं, प्राप्तः श्रीधर्कटानां प्रकटितगरिमा वंशमेरुः समस्ति ॥ १॥
सच्छायः सरसः सपत्रनिचयः शाखाप्रशाखांचितः, पीनस्कंधविराजितः प्रतिपदं संतापहारी सताम् । चिंतागोचरवारिशुद्धविसरं दातुं समर्थोऽर्थिनां, तत्राजायत कल्पपादपसमः श्रीजावडः श्रावकः ॥२॥ 15
तस्याभवन्निखिलकल्मषदोषहीना-स्तिस्रः प्रियास्त्रिपथगा इव पूरिताशाः ।
लोकत्रयप्रथितशीलयुतास्तथापि, प्राप्ताः कदाचन न दीनपथातिथित्वम् ॥ ३॥ जिनदेवी बभूवासामाद्या मधुरवादिनी । स्त्रणोचितगुणोपेता जिनेंद्रपदपूजिका ॥ ४ ॥ राकासुधारश्मिसमानशीला शुद्धाशयानंदितदीनलोका । रूपश्रिया तर्जितकामकांता कांता द्वितीयाऽजनि सर्वदेवी ॥५॥ __ कुंदावदातद्युतिशीलशालिनी मातेव सर्वस्य जनस्य वत्सला ।
20 - पूर्णी तथा पूर्णमनोरथस्थितिर्जाता तृतीया गृहिणी विवेकिनी ॥६॥ यः सर्वदा सर्वजनोपकारी गंभीरधीरो जिनधर्मधारी । तं दुर्लभं दुर्लभमल्पपुण्यैः प्रासूत तत्र प्रथमा तनूजम् ॥ ७ ॥
संजातौ भूवि विख्याती सर्वदेव्याः सुतावुभौ । उदयाचलचूलायाः सूर्याचंद्रमसाविव ॥ ८॥ आद्यस्तयोः सज्जनचित्तहारी नयी विनीतः सकलोपकारी। जिनेंद्रपूजाविहितानुरागः साधुप्रियोऽजायत देवनागः ॥९॥
द्वितीयश्च गुणावासः सत्यशौचसमन्वितः । कलावानुज्ज्वलो जातः कुलकैरवचंद्रमाः ॥ १० ॥ 25 सूरेः श्रीजिनवल्लभस्य गणिनः पादप्रसादेन त-लब्धं येन विवेकयानमसमं दुःप्रापमल्पाशयैः । येनाद्यापि सुखं सुखेन कृतिनः संसारवारांनिधेः, पारं यांति परं निरस्तसकलक्लेशावकाशोदयाः ॥ ११ ॥
शिरसि नमनं यः साधूनां दृशोरतिशांततां, वदनकमले सत्या वाणी श्रुतौ श्रवणं श्रुतेः । मनसि विमलं बोधं पाणौ धनस्य विसर्जनं, जिनगृहगतिः पादांभोजे चकार विभूषणम् ॥ १२ ॥
प्रालेयशैलशिखरोज्ज्वलकांतिकांत-श्रीनेमिनाथभवनच्छलतश्च येन ।
मूर्तिः स्वधर्म इव सर्वजनीयदातु-राविष्कृतः सकललोकहितावहेन ॥ १३ ॥ * ताडपत्रीयमिदं पुस्तकं पत्तने संघसत्कभाण्डागारे विद्यते । द्रष्टव्यम्-पिटर्सन रीपोर्ट पुस्तक ५, पृ० ४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org