SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । पाताभिधानव्यवहारिमौलेरुभे अभूतां दयिते विनीते । तत्रादिमा सच्चरितैः पवित्रा प्रतापदेवी रतितुल्यरूपा ॥२८॥ अपरा पदमलदेवी नित्यं श्रीवीतरागभक्तिपरा । तनुजौ मनुजौघवराविमे क्रमेणासुवातां द्वौ ॥ २९ ॥ श्रीजिनेंद्रपदपंकजभक्तः सर्वदा सुकृतकर्मसु सक्तः । आदिमो विजयते नगराजः कीर्तिपूरजितशारदराजः ॥ ३०॥ उदयराज इति प्रथितोऽपरस्सकलपौरविभूषणमंगजः । जयति देवगुरूत्तमभक्तिकृन्नरमणी रमणीयगुणालयः ॥ ३१॥ गोविंदनानो दयिताऽस्ति गंगादेवी सदा श्रीगुरुदेवभक्ता । न जातु धर्मामृतशीतलं यन्मनः कलिस्तापयितुं समर्थः ॥ ३२॥ तयोर्जयंत्यब्धिमिताः सुताः श्रीपदं महाभाग्यभृतो विनीताः । भृताश्चतस्रोऽपि दिशो यशोभिर्येषामशेषा हिमरुक्महोभिः ॥ ३३ ॥ आद्यो हरिश्चंद्र इति प्रतीतः सूनुर्द्वितीयः किल देवचंद्रः । ततस्तृतीयो जिनदासनामा प्ररूढधामा गुरुदेवभक्तः ॥ ३४ ॥ अथ च-श्रीजैनशासनसमुद्धरणैकधीराः श्रीदेवसुंदरयुगप्रवरा विरेजुः । तेषां पदे जनमुदे विहितावताराः श्रीसोमसुंदरगुरुपवरा जयंति ॥ ३५॥ निश्शेषलब्धिभवनं भुवनातिशायिमाहास्यधामभरतोत्तमसंयमाढ्याः । किंचात्र सर्वगुणसुंदरशिल्पसीमाभूता जयंत्यधिजिनेश्वरशासने ये ॥ ३६॥ 15 चत्वारः श्रीमदाचार्याः स्थापितास्तैर्युगोत्तमैः । एकपादपि यैर्धर्मश्चतुष्पादभवत्कलौ ॥ ३७॥ शांतिस्तवेन जनमारिहृतस्सहस्रनामावधानिबिरुदा महिमैकधामाः । तेष्वादिमा विविधशास्त्रविधानधातृतुल्या जयंति मुनिसुंदरसूरिराजाः ॥ ३८॥ षट्त्रिंशता सूरिगुणैरलंकृतास्तथा द्वितीया विजयं वितन्वते । जगच्छूताः कृष्णसरस्वतीति सद्यशःश्रियः श्रीजयचंद्रसूरयः ॥ ३९ ॥ 20 व्यजयंत महाविद्याविडंबनप्रभृतिशास्त्रविवृतिकृतः । श्रीभुवनसुंदरगुरुत्तमास्तृतीया यशोनिधयः ॥ ४०॥ तुर्या जयंति जगतीविदिता निखिलांगपाठपारगताः । श्रीजिनसुंदरगुरवः प्रज्ञाऽवज्ञातसुरगुरवः ॥४१॥ अतश्चगणाधिपश्रीगुरुसोमसुंदरप्रभूपदेशं विनिशम्य सुंदरम् । श्रुतस्य भक्तेरधुना जिनाधिपप्रवर्तमानागमलेखनेच्छया ॥१२॥ ___ गोविंद-नगराजाभ्यां नंदेभं-मैंनु-वत्सरे । लेखितः पुस्तको जीयादाचंद्रार्क प्रमोददः ॥ ४३ ॥ ॥ इति प्रशस्तिः * ॥ [५.1 श्रीमालवंशीय-श्राविकालीली-लेखित-उपमितिकथासमुच्चय-पुस्तकप्रशस्तिः । [लेखनकालो नोल्लिखितः] नम्रोन्नने यदस्मिन्नपि जगति पदांगुष्ठपीडां प्रपन्नाणोद्रो(?) क्षुभ्यदब्धेर्विमलितममृतैरभ्रमुल्लोचतीदम् । 30 यत्ताराः खस्तिकंति क्षितितलमिलिता यस्य जन्मोत्सवे तत्कल्पोऽप्याकल्पकल्पः स नुदतु दुरितं वो महावीरदेवः । * इयमेव प्रशस्तिरेतद्भाण्डागारसुरक्षितदशवैकालिकटीका-कल्पभाष्य-भवभावनावृत्त्यादिपुस्तकान्तेऽपि लिखिता लभ्यते । तत्र भवभावनावृत्तिप्रान्ते एष विशेषः पुष्पिकालेखो दृश्यते संवत् १४८० वर्षे कार्तिक वदि १२ रवौ महं भीमासुत हरिदासेन लिखितं ॥ शुभं भवतु ॥ t ताडपत्रीचं पुस्तकमिदं स्तम्भतीर्थे शान्तिनाथमन्दिरगतभाण्डागारे विद्यते । द्रपिटर्सन् रीपोर्ट पुस्तक ३, पृ. ४ 25 हरिदासेन लिखिते! शुभं भवतु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy