________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । तयोस्तु नारायणनामधेयः पुत्रोऽभवत्स्फूर्जितभागधेयः । चित्रं गुरुत्यागकृतादरोऽपि यः सर्वदा धार्मिकलोकधुर्यः ॥२॥
तस्याभूत्कडुयामिल्योऽमुजो धरणिगस्तथा । तयोः प्रियतमा लावू जासलेति यथाक्रमं ॥ ३ ॥ नारायणस्य संजज्ञे हंसलेति सधर्मिणी । रत्नपालोऽभिधानेन पुत्रोऽभूत् हृदयप्रियः ॥ ४ ॥
जैनधर्मधुराधुर्यः श्रेष्ठी नारायणोऽन्यदा । श्रीमद्देवेंद्रसूरीणामिति वाक्यामृतं पपौ ॥ ५॥ 5 तथा हि-विषयसुखपिषासोर्गेहिनः कास्ति शीलं करणवशगतस्य स्यात्तपो वापि कीदृक् ।
अनवरतमदभ्रारंभिणो भावनाः कास्तदिह नियतमेकं दानमेवास्य धर्मः ॥ ६ ॥. तच्च द्विधा सर्वविदो वदंति ज्ञानाभयोपग्रहदानभेदात् । तत्रापि विश्वकविकासनेन सद्ज्ञानदानं प्रवरं वदंति ॥ ७॥
कालादिदोषान्मतिमांद्यतश्च तच्चाधुना पुस्तकमंतरेण । न शक्यते कर्तुमतोऽत्र युक्तं भव्यस्य संत्पुस्तकलेखनं हि ॥ ८॥ ___एवं निशम्य सम्यक् श्रेष्ठी नारायणो विमंलबुद्धिः । इदममलमुत्तराध्ययनपुस्तकं लेखयामास ॥९॥ 10 यावद् व्योमसरोवरे"........(इति पद्यम् )........."
""..... ॥ छ॥ छ॥
[५५] ... पल्लीपालवंशीय-सांतूश्राविकालेखित-आचारसूत्र-पुस्तकप्रशस्तिः ।
__ [ लेखनकालो अनुल्लिखितः, अनुमानात् प्रायस्त्रयोदशशताब्दी संभाव्यते ] उत्तुङ्गः सरलः सुवर्णरुचिरः शाखाविशालच्छविः, सच्छायो गुरुशैललब्धनिलयः पूर्वश्रियाऽलंकृतः । सवृत्तत्वयुतः सुपनगरिमा मुक्ताभिरामः शुचिः, पल्लीपाल इति प्रसिद्धिमगमद् वंशः सुवंशोपमः ॥ १॥ निस्त्रासः परिपूर्णवृत्तमहिमा मुक्तामणिप्रोज्ज्वल-स्तत्राभूद् विमलोल्लसद्वसुरसौ.श्रीचंद्रनामा गृही।
श्रीमत्पार्श्वजिनेश्वरस्य सदनव्याजेन येनाहितो, मेदिन्यां खयशःप्रकाशधवलः स्फुर्यत्तिरीटः स्फुटं ॥ २ ॥ तस्यासीद् गृहमेधिनी जिनवचःपीयूषपूर्णश्रुतिर- माइं इत्यभिधा बुधैर्मुररिपोर्लक्ष्मीरिव प्रोच्यते। .
सा प्राचीव विवेकिसाभड-सुधीसामंतसंज्ञौ सुतौ, सूर्याचंद्रमसाविव स्फुटकरौ धत्ते स्म शुभ्राशयौ ॥ ३ ॥ 20 आसीत्तद्भगिनी खवंशनभसः सच्चंद्रिका निर्मला, नाम्ना श्रीमतिराश्रिताग़ममतिः सद्दर्शनालंकृतिः।
श्रुत्वा जैनवचो विवेच्य विविधां संसारनिःसारतां, सद्यः श्रीजयसिंहसूरिसविधे दीक्षामसावग्रहीत् ॥ ४ ॥ तस्या एव भगिन्या सांतूनाम्न्या विशालमभिलेख्य । आचारसूत्रपुस्तकमिह दत्तं श्रीमतिगणिन्यै ॥ ५॥ इन्दुर्यावदमन्दमन्दरगिरिर्यावत्सुराणां सरित् , यावद् यावदिलातलं जलनिधिर्यावन्नभोमण्डलम् ।
यावत् सान्द्रमनिन्द्यनन्दनवनं यावद् यशांस्यहता, यावत्तावदिह प्रबोधतरणिर्नन्द्यादसौ पुस्तिका ॥ ६॥ 25 एतत्पुस्तकममलं सकलं श्रीधर्मघोषसूरीणाम् । व्याख्याहेतोरर्पितमिह सद्यः श्रीमतिगणिन्या ।। ७ ॥
15
प्राग्वाटवंशीय-श्रे० देदाक-गृहीत-उत्तराध्ययनवृत्ति-पुस्तकप्रशस्तिः ।
[लेखनकालो नोल्लिखितः, परं वर्णनानुसारेण १४ शताब्दी शायते]
स श्रीवीरजिनो जीयाद्यस्य पादनखांशवः । विकाशे भव्यराजीवराजेस्तरुणभानवः ॥ १॥ . 30 श्रुत्वाक्टावाप्तिमुख्यमुच्चैहिंसाफलं यत्र दयाप्रधानाः । धर्मेषु कृत्येषु जना यतते पुरं तदत्रास्ति दयावटाख्यं ॥२॥
* एतत्प्रशस्तियुक्तं ताडपत्रात्मकं सनियुक्तिकमाचाराङ्गपुस्तकं पत्तने संघवीपाडागतभाण्डागारे विद्यमानमस्ति । इयं प्रशस्तिः पुनर्नियुक्तिपन्थप्रान्तेऽपि लिखिता विद्यते। . 'ताडपत्रात्मकमिदं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरगतभाण्डागारे विद्यमानमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org