________________
४७
..
.
..
.
..
.
.
.
.
.
..
..
जैनपुस्तकप्रशस्तिसङ्ग्रह ।
[४७] [प्राग्वाटज्ञातीय ] धर्मश्रेष्ठि-लेखित लक्षग्रन्थमान-आगमपुस्तक प्रशस्तिः ।
[लेखनकाल १४७४ विक्रमाब्द] -संवत् १४७४ वर्षे मार्म शुदि ६ रवी लिखितं विप्रेण नागशर्मणा श्रीमदणहिल्लपसने ॥ शिक्मस्तु ॥
प्रथमो नरपालाख्यो धनसिंहो द्वितीयकः । तार्तीयीकस्तु षेताह एते [सु]प्रातरस्त्रयः ॥२॥ लक्षस्य शवकू-मानी पत्नी धर्मपरायणा । सतीमतक्षिकाशीलत्रिशुद्धजलतल्लिका ॥३॥ . सवकू-लक्षयोजज्ञे तनयो विनयोज्ज्वलः । ज्ञातः श्रीमद्धर्ममर्मा धर्मादः शुद्धधीनिधिः ॥ ४ ॥ तस्य भार्या गुणैरार्या धर्मकर्मपरायणा । रत्नू नानी शुद्धशीला विशुद्भहृदया सदा ॥ ५॥
..............॥६॥ तप्यतेऽजितचूला सा रंगसंवेगभूषणम् । तपोऽतिदुस्तपं पापपंकशोषणपूषणम् ॥ ७ ॥ वैराग्याप्तपरितुष्टो विनयादिगुणालयः । विनयानंदनामास्य बंधुः साधुशिरोमणिः ॥ ८॥ श्रेष्ठी धर्माभिधो धर्मकर्मकर्मठमानसः । अजिझं ब्रह्मचर्य यो यौवनेऽप्युदचीचरत् ॥ ९॥ चतुर्विशतिकृत्वा यः पंचशक्रस्तवैर्जिनान् । प्रत्यहं वंदते भूरिभक्तिव्यक्तितरंगितः ॥ १० ॥
...........................॥११॥ ............... । देवालयादिसामग्र्या कृतयात्रामहोत्सवौ ॥ १२ ॥ कर्मणो लक्ष्मसिंहश्च प्रसिद्धौ पुण्यकर्मभिः । गोधा-लिंबादिपुत्राढ्यौ संघेशौ यस्य मातुलौ ॥ १३ ॥ साधर्मिकाणां प्रति समरूप्यटकान्विति]मोदकमर्पयन् यः । अभ्यर्च्य संघेन समं गुरूंश्च श्रीदर्शनोद्यापनमाततान ॥१॥
चैत्ये श्रीआदिदेवस्स श्रीदेवकुलपाटके कुलीखोतकरो देवकुलिको यो व्यधापयत् ॥ १५ ॥ 20 इतश्च-श्रीतपागच्छक्षीराणसुधाकरः । जवेति गुरवः श्रीमसोमसुंदरसूरयः ॥ १६ ॥
तेषां गुरूणामुपदेशवाचं निशम्य सम्यग् वरवासनाढ्यः । स लेखयन् लक्षमितं जिनेंद्रागमं ह्यमुं पुस्तकमप्यलीलिखत् ॥ १७ ॥ ॥ शुभं भवतु ॥
25 प्राग्वाटवंशीय-धर्मश्रेष्ठि-लेखित-लक्षद्वयग्रन्थमान-पुस्तकप्रशस्तिः ।
[लेखनकाल १४७९-८१ विक्रमाब्द] -संवत् १४७९ वर्षे वैशाषवदि ४ गुरौ ॥ इष्टदेवताभ्यो नमः ॥
श्रीमज्जिनेश्वरविहारविराजमानं सद्धर्मकर्मठंजनबजलब्धमानम् ।
सौवश्रिया प्रतिहतान्यपुराभिमान ख्यातं हडाननगरं जयति प्रधानम् ॥ १ ॥ 80 *पत्तने संघवीपाडास्थितभाण्डागारे विद्यमान ताडपत्रात्मक-राजप्रश्नीयोपाजवृत्तिपुस्तकप्रान्ते इयं प्रशस्तिलिखिता लभ्यते। + पत्तने संघवीपाडासत्कभाण्डागारे एकं ताडपत्रात्मकं [प्राकृतभाषामय] पद्मप्रभचरितपुस्तकं विद्यते, तत्प्राम्तभागे इयं प्रशस्तिलिखिता लब्धा।
[४८]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org