SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 10 जैनपुस्तकप्रशस्तिसङ्ग्रह । तामुपयेमे सुकृती मन्त्रिवरो वीरमो विशदबुद्धिः । धीसखशतमखवीदा-चांपलदेवीप्रसूततनुजन्मा ॥ ४ ॥ सत्पात्रदानसफलीकृतभूरिवित्ता श्रीधर्मकर्मकरणप्रवणैकचित्ता। या खैर्विशुद्धचरितैर्विदुषामदोषश्लाघास्पद समज़निष्ट लसत्प्रतिष्ठा ॥ ५॥ श्रीमत्तपागणनभोङ्गणसूरसूरि-श्रीदेवसुंदरगुरुपवरोपदेशं । श्रुत्वा सुधासममसीमगुणासमाना सा श्रावकाचरणचारुरताऽथ आल्हूः ॥ ६ ॥ मत्वाऽसारतरं धनं धनफलं लिप्सुर्निजश्रद्धया, वेदेषूदधि-शीतदीधिति (१४५४ ) मिते संवत्सरे विक्रमे । लक्ष्मीवैश्रवणातिशायि जनते श्रीस्तंभतीर्थाभिधे, दंगेऽलीलिखदेतदद्भुततमं पञ्चाङ्गिकापुस्तकम् ॥ ७ ॥ आचंद्रादित्यमेतद्विरचितचतुरानन्दसंपद्विशेष, संख्यावद्भिर्मुनीन्द्ररहमहमिकया वाच्यमानं वितन्द्रैः । उद्यहुःखातिरेकाकुलनिखिलजगज्जीवजीवातुकल्पं, श्रेयःश्रीहेतुभूतं प्रवचनमनघं जैनमेतच्च जीयात् ॥ ८॥ ॥ शुभं भवतु श्रीसंघस्य ॥ ७॥ [४६] प्राग्वाटज्ञातीय-रूपलश्राविका-लेखित-पद्मचरित्र (प्रा० पउमचरिय) पुस्तकप्रशस्तिः । [ लेखनकाल १४५८ विक्रमाब्द] -इति पद्मचरित्रं समाप्तमिति ॥ छ ॥ ग्रंथानं ॥ १०५०० । 15 संवत् १४५८ वर्षे प्रथमभाद्रपदशुदि ८ अष्टम्यां रवी श्रीपत्तने पद्मचरित्रं लिखितं ॥ छ । , श्रीशिवमस्तु । श्रीः ॥ प्राग्वाटज्ञातीयः श्रेष्ठी वारामिक कृतनिष्ठः । कीर्तिप्रथापयिष्ठः शिष्टमष्ठोऽजनि गरिष्ठः ॥ १॥ प्रभूतपुण्यार्जनसावधानस्तस्यांगजोऽभूद् वयजाभिधानः । गुणैरनेकैरिह निस्समानः परोपकारपंथनैकतानः ॥ २ ॥ माऊसंज्ञा तस्य भार्या विधिज्ञा जज्ञे धन्याऽगण्यपुण्यप्रवीणा । कीर्तिस्फीता सर्वदोदारचित्ता रेखाप्राप्ता स्त्रीषु शीलोत्तमासु ॥ ३॥ चत्वार एते तनयासंदीया जाता धनाढ्याः सुकृतावदाताः । तेजाभिधो भद्रकभीमसिंहः संपूर्णसिंहो भुवि पद्मसिंहः ॥ ४ ॥ सुता तथा रूपलनामधेया गुणैरमेया शुभभागधेया । यस्याः पितृव्यातनुनात्रकेण श्रीमज्जयानंदमुनींद्रचंद्राः ॥ ५॥ आबालकालादपि पुण्यकार्यभारकताना करुणार्द्रचित्ता । देवे गुरौ भक्तिमती सतीद्धा सदा तपःकर्मणि कर्मठा या ॥६॥ 25 श्रीमत्तपागणनभोंगणभानुकल्पश्रीदेवसुंदरगुरुपवरोपदेशात् । । नंदेषु-वॉरिधि-शशांकमिते प्रतीते संवत्सरे वहति विक्रमभूपतीये (१४५९) ॥७॥ श्रीमत्पमचरित्रं बहुना दविणेन लेखयित्वेदं । श्रीपत्तनीयकोशे निवेशयामास सा सिद्धयै ॥ ८॥ मोक्षाध्वनीनसाधूनां ज्ञानसत्रोपमं परं । आचंद्रार्कमिदं जीयात्पुस्तकं प्रास्तदूषणं ॥९॥ 20. एतत्प्रशस्तियुक्तं ताडपत्रीयपुस्तकं पत्तने संघवीपाडासत्कभाण्डागारे विद्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy