SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । [४४] श्रीमालवंशीय श्रे०मेलिग-लेखित-पार्श्वचरित्र-पुस्तकप्रशस्तिः । __[लेखनकाल १४५५ विक्रमाब्द ] | पंच-पंच-मनुसंख्यवत्सरे (१४५५) पौषमुख्यसुतिथौ दिने विधोः।। श्रीमति प्रथितपत्तने पुरे लेखकेन लिखितं सुपुस्तकं ॥ १॥ .. श्रीमालवंशे कमलावतंसे श्रेष्ठी पुराऽभूद् भुवि वीरपालः। देवे गुरौ चाद्भुतभक्तियुक्तः ख्यातो गुणैश्चन्द्रकराभिरामैः ॥ २ ॥ पुण्यैकपात्रं तत्पुत्रो नरसिंहोऽभवत्सुधीः । हीमादेवी प्रिया तस्य प्रशस्यगुणशालिनी ॥ ३ ॥ तयोः सुतौ धूलिग-मेलिगौ च सदा सदाचारविचारवीरौ । सद्धर्मशास्त्रश्रवणैकचित्तौ जीयाचिरं पूर्णशशांककीर्ती॥४॥ मेलादेवी तत्प्रिया भाति सौभाग्यश्रीगेंहधर्मकार्ये नियुक्ता । भक्ता देवे सद्गुरौ चातिनम्रा गेहस्यांतर्जगमा कल्पवल्ली ॥५॥ 10 .. श्रीनागेंद्रगणेऽगण्यपुण्यसंभारभूषिते । श्रीपद्मचंद्रसूरीन्द्रः प्रबभूव गुणैकभूः ॥ ६ ॥ तत्पट्टपूर्वाचलभास्करः श्रीरत्नाकरः सूरिवरो बभूव । पट्टेऽस्य रत्नप्रभसूरिरेषः श्रीमान् जयी निर्जितकामवीरः ॥७॥ तत्पदे जयति जंगमतीर्थ सिंहदत्तगुरुरेष गुणाढ्यः । यः सतां प्रथमकः किल कार्ये चंद्रगौरयशसा प्रसृतश्च ॥ ८॥ श्रीमते सिंहदत्ताय शुद्धचित्ताय सूरये । न्यायोपार्जितवित्तोऽयं मेलिगः श्रावकाग्रणीः ॥९॥ पार्श्वनाथचरित्रस्य प्रददौ पुस्तकं शुभं । मेलादेव्यपि तत्पत्नी श्रीकल्पस्य च पुस्तिकां ॥ १०॥ 15 शुभं भवतु ॥ लेखकपाठकयोः ॥ [४५] 20 प्राग्वाटवंशीय-श्राविका-आल्हू-लेखित-पञ्चाङ्गीसूत्रवृत्ति-पुस्तकप्रशस्तिः । [लेखनकाल १४५५ विक्रमाब्द ] संवत् १४५५ वर्षे ज्येष्ठ शुदि ३ गुरू पंचांगीसूत्रवृत्तिपुस्तकं लेखयांचके ॥ श्रीकायस्थविशालवंशगगनादित्योऽत्र जानाभिधः, संजातः सचिवामणीर्गुरुयशाः श्रीस्तंभतीर्थ पुरे। तत्सूनुर्लिखनक्रियैककुशलो भीमाभिधो मन्त्रिरोद, तेनायं लिखितो बुधावलिमनःप्रीतिप्रदः पुस्तकः ॥ १ ॥ ॥ शुभं भवतु श्रीसंघभट्टारकस्य ॥ प्राग्वाटवंशमुकुटः प्रकटप्रतिष्ठः श्रेष्ठी बभूव भूवि लाषण इत्यभिख्यः । शीतांशुरश्मिवरभासुरकीर्तिसारैर्यः सर्वतोऽपि धरणिं धवलीचकार ॥ १ ॥ एतत्पाणिगृहीति साऊरिति विश्रुता विशदशीला । जिनवचनबद्धरंगा या गङ्गामनुकरोति निजचरितैः ॥ २॥ आल्हूरित्यभिधाना सकर्णजनवर्णनीयगुणनिवहा । अभवत्तयोस्तनूजा जिनादिपूजाविधानरता ॥ ३ ॥ * ताडपूत्राल्मिकैषा पुस्तिका पत्तने संघसत्कभाण्डागारे विद्यते । एतत्प्रशस्तिसमन्वितं ताडपत्रात्मकं पञ्चोपाजवृत्तिपुस्तकं पत्तने संघवीपाडास्थितभाण्डागारे विद्यते । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy