________________
88
10
15
जैनपुस्तकप्रशस्तिसङ्ग्रह। प्राग्वाटान्वयभूः प्रभूतविभवोऽभूद्वज्रसिंहाभिधः, श्राद्धः श्रीजिननाथपूजनपरः पुण्यक्रियातत्परः । भार्या तस्य कडूर्दयैकरसिका सद्धर्मबद्धादरा.........."
.......... ॥१॥ चत्वारस्तनयास्तयोः समभवनेते. युताः सद्गुणैः, धांगाख्यः प्रथमः पृथूज्वलयशा बांवाभिधानोऽपरः। पुण्योपार्जनलालसो लषमसीत्याख्या प्रतीतस्तत-स्तुयों रावणनामधेयविदितः सुश्राद्धवर्गाप्रणीः ॥२॥ ग्रामे फीलणिनामके निवसतामेषां सवित्री कडू-रेषा लिख................................।
................ विततश्रीमत्तपागच्छंपा-चार्यश्रीदेवसुंदरमहापुण्योपदेशादिदम् ॥ ३ ॥ क्षोणी-बाणे-पयोनिधि-क्षिति मिते संवत्सरे वैक्रमे, रम्ये श्रीअणहिल्लनामनगरे श्रीज्ञानकोशेऽनघे । अस्थाप्यत्र सुदर्शनाभिधमहासत्याश्चरित्रं तया, नित्यं नंदतु वाच्यमान"....................॥ ४ ॥
• [शुभं भवतु लेखकपाठ-] कयोः ॥ छ ।
[४३] प्राग्वाटज्ञातीय-श्रा०प्रीमलदेवी-लेखित-सूत्रकृताङ्गटीका-पुस्तकप्रशस्तिः ।
[लेखनकाल १४५४ विक्रमाब्द ] -समाप्ता चेयं सूत्रकृतद्वितीयांगस्य टीका । कृता चेयं शीलाचार्येण वाहरिगणिसहायेन ॥ यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेना-ततमस्को भव्यः कल्याणभाग्भवतु ॥
-ग्रंथाग्रं० १३९५० । संवत् १४५४ वर्षे माघशुदि १३ सोमेश्येह श्रीस्तंभतीर्थे लिखितमिदं पुस्तकं चिरं नंदतात् ॥ शुभं भवतु ॥ ..
श्रीकायस्थविशालवंशगगनादित्योऽत्र जानाभिधः, संजातः सचिवाग्रणीगुरुयशाः श्रीस्तंभीर्य पुरे। तत्सूनुर्लिखनक्रियैककुशलो भीमाभिधो मंत्रिराट्, तेनाऽयं लिखितो बुधावलिमनःप्रीतिपदः पुस्तकः ॥१॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥
॥ शुभं भवतु श्रीसंघस्य लेखकपाठकयोश्च ।।
॥ॐ॥ नमः श्रीसर्वज्ञाय ॥ प्राग्वाटवंशमुकुटः श्रेष्ठी गंगाभिधः समजनिष्ट । अधरयति स धरायां धनदं यः खीयधननिचयैः ॥ १॥ एतस्य विशदशीला जज्ञे पत्नी च गउरदेनानी । निःसीमरूपसंपलक्ष्मीरिव वासुदेवस्य ॥ २॥ प्रीमलदेवीसंज्ञा सकर्णजनवर्णनीयगुणकलिता । अभवन् तयोस्तनूजा जिनपूजाध्यानतच्चित्ता ॥ ३ ॥ विमलतमशीलसुभगा नूनं या खीयशुद्धचरितेन । चिरवीतामपि सीतां निरंतरं स्मारयत्येव ॥४॥ तामुपयेमे सुकृती भूभड इति विश्रुतो विशदबुद्धिः । ठकुरकाला-भार्यासंभलदेवीप्रसूततनुजन्मा ॥५॥
श्रीजैनशासननभोभानुश्रीदेवसुंदरगुरूणाम् । प्रीमलदेवी साऽथ श्रुत्वा पीयूषदेश्यमुपदेशम् ॥ ६ ॥ मत्वाऽसारतरं धनं धनफलं लिप्युनिजश्रद्धया, वेदेषूदधि-शीतदीधितिमिते (१४५४ ) संवत्सरे बैक्रमे ।
लक्ष्मीवैश्रवणातिशायिजनते श्रीस्तंभतीर्थाभिधे, दंगेऽलीलिखदेतदद्भुततमं श्रीसूत्रकृत्पुस्तकम् ।। ७ ।। 30 आचंद्रादित्यमेतद्विरचितचतुरानंदसंपद्विशेष, संख्यावद्भिर्मुनींद्रेरहमहमिकया वाच्यमानं वितंदैः ।
- उद्यहुःखातिरेकाकुलनिखिलजगज्जीवजीवातुकल्पं, श्रेयःश्रीहेतुभूतं प्रवचनमनघं जैनमेतच जीयात् ॥ ८॥ * ताडपत्रात्मकं पुस्तकमिदं पत्तने संघसत्कभाण्डागारे विद्यते । द्रष्टव्यम्-पिटर्सन रीपोर्ट, पुस्तक ५, पृ० ७१ ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org